________________
अथ परोक्षखण्डः॥ अस्पष्टं परोक्षम् । ४२॥ स्मरणप्रत्यभिज्ञानतर्वानुमानागमभेदतस्तत्पञ्चप्रकारम् ॥४३॥
तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणं, यथा तत्तीर्थकरबिम्बमिति ॥४४॥
अनुभवस्मृतिहेतुकं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानं, यथा गोसदृशो गवयः, स एवायं जिनदत्त इत्यादि ॥४५॥ ___उपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसम्बन्धाद्यालम्बनमिदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहापरनामा तर्कः, यथा यावान् कश्चिद धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसत्यसौ न भवत्येवेति ॥४६॥ - अनुमानं द्विधा-स्वार्थ परार्थं च । तत्र हेतुग्रहणसम्बन्धस्मरणकारणक साध्यविज्ञानं स्वार्थम् । तथाहि, यः पूर्व भूयः सहचारदर्शनादिना यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्ति गृहीतवान् , स कदाचित् पर्वतसमीपं गतः पर्वते धूमं पश्यन् व्याप्ति स्मरति,-यावान् कश्चिद् धूमः स सर्वो हो सत्येव भवतीति तदनन्तरं पर्वतो वह्निमानिति ज्ञानमनु मेतिरुत्पद्यते । तदेततू स्वार्थानुमानम् । न तु मध्ये वहिव्याप्यधूमवान् अयं पर्वत इतिज्ञानात्मक- परामर्शस्यावश्यकत्वम् ॥४७॥
.. एतेन परामर्शजन्यज्ञानमनुमितिः, लिङ्गपरामर्शोऽनुमानं, व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः, व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मत्वमित्यपास्तम् ॥४८॥ .. निश्चिता यथानुपपत्त्येकलक्षणो हेतुः । स द्विधा उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् । तत्रोपलब्धिर्द्विधा-अविरुद्धोपलब्धिविरुद्धोपलब्धिश्च । यथा अस्यत्र गिरिनिकुञ्ज धनञ्जयो धूमसमुपलम्भादिति; न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदनविकारादेरिति च । अनुपलब्धिरपि द्विधा-अविरुद्धानुपलब्धिविरुद्धानु