________________
१६०
• स्पष्टं प्रत्यक्षम् ||३३||
तद् द्विधा सांव्यवहारिकं पारमार्थिकं च । सांव्यवहारिकमिन्द्रियापेक्षं पारमार्थिकमुत्पत्तावात्ममात्रापेक्षम् ||३४||
तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च । तत्राद्यं स्पार्शनरासनचाचाक्षुषश्रावणभेदात् पञ्चधा । अन्त्यं मानसम् ||३५||
तद्वयं अवग्रहेहापायधारणाभेदादेकशश्चतुर्धा ॥ ३६ ॥
विषयविषयिसन्निपातानन्तरसमुद्भूत सत्तामात्रगो चरदर्शन । जातमायमवान्तर.- सामान्याकार विशिष्ट वस्तुग्रहणमवग्रहः । अवगृहीतार्थविशेषाकांक्षणमीहा । ईहिलविशेषनिर्णयोऽवायः । स एव दृढतमावस्थापन्नो धारणा ||३७||
पारमार्थिकं विकलं सकलं च ||३८||
विकलमवधिमनः पर्यायभेदाद् द्विधा । अवधिज्ञानावरण कर्मक्षयोपशम समुद्भव भवगुणप्रत्ययं रूपविषयक माद्यम् । द्वितीयं संयमविशुद्धिनिबन्धनतदावरणक्षयोपशमसमुद्भवं मनोविषयकम् ॥ ३९ ॥
सकलं समस्तावरणक्षयापेक्षं
निखिलभाव साक्षात्कारिस्वरूपं केवल
ज्ञानम् ||४० ॥
एतेन इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षं तन्निर्विकल्पकं सविकल्पकं चेति । पुनस्तद् घ्राणजादिभेदेन षड्विधं । सन्निकर्षश्च द्रव्यप्रत्यक्षे संयोगः । द्रव्यसमवेतगुणकर्मजातिप्रत्यक्षे संयुक्तसमवायः । द्रव्यसमवेतसमवेत जातिप्रत्यक्षे संयुक्तसमवेतसमवायः । शब्दप्रत्यक्षे समवायः । शब्दसमवेत प्रत्यक्षे समवेतसमवायः । अभावप्रत्यक्षे विशेषणविशेष्यभावः इति निरस्तम् । सन्निकर्षस्यैवाऽप्रामाणिकत्वात् ॥ ४१ ॥
इति श्री जैनतर्कसङ्ग्रहे प्रत्यक्षखण्डः ॥
卐