________________
.द्वितयेऽपि द्विधा पर्याप्ताऽपर्याप्तभेदात् ॥ पर्याप्तिश्चाहारादिग्रहणपरिणमनादिहेतुरात्मनः शक्तिविशेषः । आहारशरीरेन्द्रियप्राणभाषामनोभेदात् सा षविधा । ताश्चैकाक्षविकलाक्षपश्चाक्षाणां क्रमाञ्चतस्रः पञ्च षट् च ॥२३॥
स्थावरा एकेन्द्रियास्ते च पृथिव्यप्तेजोवायुवनस्पतयः । तत्र वनस्पतयः प्रत्येकाः साधारणाश्च । प्रत्येका बादरा एव । साधारणाः पृथिव्यबतेजोवायवश्च सूक्ष्मबादरभेदाद् द्विधा ॥२४॥ __सा द्वित्रिचतुःपञ्चेन्द्रियत्वेन चतुर्विधाः। द्वीन्द्रियाः कृमिशङ्खायाः । श्रीन्द्रिया यूकामत्कुणादयः । चतुरिन्द्रिया दंशमक्षिकादयः । पञ्चेन्द्रिया नारकतिमनुष्यदेवाः ॥२५॥
तत्र नारका रत्नशर्करावालुकापङ्कधूमतमस्तमःप्रभाभेदात् सप्तधा । तिर्यञ्चो जलचरस्थलचरखेचरभेदाच्च त्रिधा । प्रत्येकं तेऽपि सम्मूछिमा गर्भजाश्च । तत्र गर्भजा जरायुपोताण्डभवाः । मनुष्याः सम्मूछिमगर्भजभेदेन द्विविधाः । अत्र गर्भजा जरायुजा. एव । देवा भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदा
चतुर्धा । देवनारकगर्भजाः संज्ञिनः, शेषा असंज्ञिनः ॥२६॥ ..• स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो रूपं
शब्दश्च गोचरः ॥२७॥ - प्रदेशाश्चैकैकजीवस्य धर्माधर्मलोकाकाशप्रमिताः । अयं च गमनागमनात सक्रियः शरीरमात्रः स्वसंविदितश्च ॥२८॥ . स्वपरव्यवसायि संवेदनं प्रमाणम् ॥२९॥
प्रमेयाऽव्यभिचारित्वं प्रामाण्यं, तदितरत्त्वप्रामाण्यं तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः परतश्च ।।३०॥
तद् द्विविधं- प्रत्यक्षं च परोक्षं च ॥३१॥
न तु प्रत्यक्षानुमानोपमानशब्दभेदाच्चतुर्धा । अनुमानादीनां परोक्षेऽन्तर्भावात् ॥३२॥