________________
त्वादिनाऽपि परिणमन्तीति । अन्यथा पटसुवर्णादीनामपि द्रव्यभेदापत्तेः । दिक् च नभ प्रदेशपङ्क्तिरूपैवेति नातिरिच्यते ॥९॥
जीवपुद्गलाः सक्रियाः शेषाण्यक्रियाणि ॥१०॥ आकाशादेकद्रव्याणि । जीवपुद्गलकाला अनन्तानि ॥११॥ रूपिणः पुद्गलाः । शेषाण्यरूपीणि ॥१२॥
तानि च दशधा-धर्मास्तिकायस्तद्देशस्तत्प्रदेशः । अधर्मास्तिकायस्तदेशस्तप्रदेशः । आकाशास्तिकायस्तदेशस्तत्प्रदेशः । अद्धा समयश्च । निर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः । सकलदेशप्रदेशानुगतसमानपरिणतिमद्विशिष्टं द्रव्यमस्तिकायः । तस्य सांशो भागस्तदेशः । निरंशो भागस्तत्प्रदेशः ॥१३॥
धर्माधर्मो लोकपरिमाणावङ्येयप्रदेशकौ ॥१४॥
आकाशं लोकालोकभेदाद् द्विविधम् । तल्लक्षणं विदं-धर्मादीनां वृत्ति व्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् । प्रदेशा लोकस्याऽसङ्ख्याताः, अलोकस्याऽनन्ताः ॥१५॥
जीवा द्विधा मुक्ताः संसारस्थाश्च ॥१६॥
तत्र मुक्ताः जिनाजिनतीर्थातीर्थस्वयंबुद्धप्रत्येकबुद्धबुद्धबोधितनपुंसकत्रीपुंलिङ्गगृह्यन्यस्वलिङ्गेकानेकेतिप्ररूपणाभेदात् पञ्चदशधा । मुक्तिः कर्मक्षयः परमानन्दो वा । न त्वात्यन्तिको दुःखध्वंसो दुरितध्वंसो वा, तस्याऽपुरुषार्थत्वात् ॥१७॥ ___ ज्ञानदर्शनावरणवेद्यमोहनीयायुर्नामगोत्रान्तरायभेदादष्टधा कर्म, कार्मणवर्गणानिष्पन्नं पौद्गलिकम् ॥१८॥
औदारिकवैक्रियाहारकतैजसभाषोच्छ्वासमनःकार्मणाभिधा वर्गणाः॥१९॥ प्रत्येकमभव्यानन्तगुणसिद्धानन्तभागकल्पपरमाणुस्कन्धनिष्पन्नाः ॥२०॥. उत्तरोत्तरमनन्तगुणाः ॥२१॥ संसारस्था द्विधा-स्थावराश्च त्रसाश्च ॥२२॥