________________
१५७
मृत्पिण्डः । यदुत्पत्तौ कार्यस्याऽवश्यं विपत्तिः सोऽस्य प्रध्वंसाभावः, यथा कलशस्य कपालकदम्बकम् । स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः, यथा स्तम्भस्त्रभावात् कुम्भस्वभावव्यावृत्तिः । कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः, यथा चेतनाचेतनयोः ॥६॥
धर्माधर्माकाशजीवपुद् गलकाला द्रव्याणि ||७||
धर्मास्तिकायः । स्थित्युपष्टम्भको ऽधर्मास्तिकायः । अवगाहस्वभाव आकाशः । उपयोगलक्षणो जीवः । ग्रहणगुणः पुद्गलः । वर्त्तनालक्षणः कालः ॥८॥
परे तु पृथिव्यप्तेजोवाय्वाकाशकालदिग् देहिमनांसि द्रव्याणि । गन्धari शीतस्पर्शवत्त्वमुष्णस्पर्शवत्त्वमपाक जानुष्णाशीतस्पर्शवत्वं शब्दसम - वायिकारणत्वं अतीतादिव्यवहारहेतुता प्राच्यादिव्यवहारहेतुता ज्ञानवत्वं सुखादिसाक्षात्कारहेतुतेति क्रमात्तेषां लक्षणानि । पृथिव्यादयश्चत्वारो नित्या अनित्याश्च । नित्याः परमाणुरूपा अनित्या द्वणुकादिरूपाः । ते च शरीरेन्द्रियविषयभेदात् त्रिधा । पृथिव्यां शरीरं योनिजमयोनिजं च म्यादीनाम् । इन्द्रियं घ्राणं । विषयः पाषाणादिः । जले शरीर-मयोनिजं वरुणलोके । इन्द्रियं रसनं विषयः सरिदादिः । तेजसि शरीरं प्रावत्, तच्च सूर्यलोके । इन्द्रियं चक्षुः । दियो वह्निसुवर्णादिः । वायौ शरीरं प्राग्वत्, तच्च वायुलोके । इन्द्रियं त्वक् । विषयः प्राणादिः । आकाशे इन्द्रियं श्रोत्रं । आत्मा जीवात्मा परमात्मा च । आद्यः प्रत्यङ्ग भिन्नः । द्वितीयः सर्वत एक एव नित्यज्ञानेच्छाकृतिमान् । आकाशायो विभव नित्याच । मनोऽणुरूपं नित्यमनन्तं चेति ॥
तन्न, पृथिव्यप्तेजोवायुमनसां पुद्गलस्वरूपाऽनतिरेकात् पुद्गलत्वप्रतीतेः सर्वत्राविशिष्टत्वात् । किञ्च य एव पुद्गलाः पृथिवीत्वादिना परिणतास्त एव जलत्वादिनाऽपि परिणमन्ति य एव च जलत्वादिना परिणतास्त एव पृथिवी