________________
परिशिष्टम् १ श्रीजैनतर्कसङ्ग्रहः ॥
(सूत्रपाठः।) श्रीनाभेयं नमस्कृत्य, नेमिसूरि जगद्गुरुम् ।
तन्यते बालबोधाय जैनोऽयं तर्कसङ्ग्रहः ॥१॥ देवगुरुधर्मास्तत्त्वम् ॥१॥
रागद्वेषाज्ञानविनिर्मुक्तोऽर्हन् देवः । स सकलभावसाक्षात्कारी तीर्थप्रणेता चतुस्त्रिंशदतिशयशाली ॥२॥
सम्यग्भावग्ररूपकः पञ्चमहाव्रतधारी गुरुः ।।३।। . द्रव्यगुणपर्याया भावाः ॥४॥
गुणपर्यायवद् द्रव्यम् । द्रव्याश्रिता निर्गुणाः गुणाः। उभयाश्रिताः पर्यायाः ॥५॥
परे तु, द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्त पदार्थाः। तत्र द्रव्यगुणौ वक्ष्येते। उत्क्षेपणापक्षेपणाकुश्चनप्रसारणगमनभेदात् कर्म पञ्चधा । नित्यमनेकसमवेत सामान्य, द्रव्यगुणकर्मवृत्ति, परमपरं चेति तद् द्विधा । परं सत्ता, अपरं द्रव्यत्वादि । नित्यद्रव्यवृत्तयो व्यावर्त्तका विशेषा अनन्ताः। नित्यसम्बन्धः समवाय एक एव, अयुतसिद्धवृत्तिः । अभावश्चतुर्विधः-प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्च । तत्राऽनादिः सान्तः प्रागभावः । सादिरनन्तो ध्वंसः। तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । तादात्म्यसम्बन्धावच्छिनप्रतियोगिताकोऽन्योन्याभाव इति ॥ ___ तन्न, यथायथं यथोक्तभावेष्वन्तर्भावात् । किश्चाऽवयवावयविनोः गुणगणिनोः क्रियाक्रियावतोश्च भेदाभेद एव सम्बन्धः । अभावश्चाऽधिकरणात्मक एवेति । तत्र, यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः, यथा घटस्य