Book Title: Jain Tark Sangraha Jain Muktavali cha
Author(s): Vijaynandansuri
Publisher: Godi Parshwanath Jain Temple Trust

Previous | Next

Page 208
________________ १६३ __ परे तु, सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः । साधारणाऽसाधारणाऽनुपसंहारिभेदादनैकान्तिकस्त्रिधा। तत्र साध्याभावववृत्तिः साधारणो यथा पर्वतो वह्निमान् प्रमेयत्वात् । सपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणो यथा शब्दो नित्यः शब्दत्वात् । अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी यथा सर्वमभिधेयं प्रमेयत्वात् । साध्यव्यापकीभूताऽभावप्रतियोगी हेतुर्विरुद्धो यथा शब्दो नित्यः कृतकत्वात् । साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्षो यथा शब्दो नित्यः श्रावणत्वात्, शब्दोऽनित्यः कार्यत्वात् । असिद्धस्त्रिविधः-आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्च । आद्यः-गगनारविन्दं सुरभि अरविन्दत्वात् । द्वितीयः शब्दो गुणश्चाक्षुषत्वात् । सोपा. धिको हेतुाप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः। यथा पर्वतो धूमवान् वतिमत्त्वादित्यत्र आर्टेन्धनसंयोग उपाधिः सोपाधिकत्वाच्च वहिमचं व्याप्यत्वासिद्धम् । यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितो यथा वहिरनुष्णो द्रव्यत्वादिति ॥ तन्न, सत्प्रतिपक्षबाधयोरतिरिक्तहेत्वाभासत्वे मानाभावात् ॥५७॥ . ... आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । आप्तवचनं तूपचारात् ॥५८।। अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञातं चाभिधत्ते स आप्तः । स द्विधा-लौकिको लोकोत्तरश्च । आद्यो जनकादि द्वितीयस्तु तीर्थकृदादिः ।।५९॥ .. 'वर्णपदवाक्यात्मकं वचनम् ।।६०॥ स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः । न त्वस्माच्छब्दादयमों बोद्धव्य इतीश्वरेच्छा शक्तिरिति । मानाभावात् ॥६१॥ सर्वत्रायं ध्वनिविधिप्रतिषेधाभ्यां स्वार्थममिदधानः सप्तभङ्गीमनुगच्छति । तद्यथा-१ स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । २ स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः । ३ स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः । ४ स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276