________________
१३७
• ज्ञानेति । ज्ञानावरणीय-दर्शनावरणीय-वेदनीय-मोहनीया-यु-र्नामगोत्रान्तरायरूपास्तस्य मूलभेदाः । उत्तरभेदास्तु क्रमेण पञ्च, नव, द्वौ, अष्टाविंशतिः, चत्वारः, व्युत्तरशतं, द्वौ, पञ्चेति । शुभाशुभेति । एतत् सर्वं कर्मापि सामान्यतः शुभमशुभं चेति द्विप्रकारम् । तत्र शुभफलदं शुभं, अशुभफलदमशुभं बोध्यम् ।।१०२-१०३॥ अथादृष्ट स्यान्यरात्मधर्मत्वमभिमन्यते, तन्निरासायाहकार्मणवर्गणाजात-मिदं पौद्गलिकं मतम् ।
औदारिकादिभेदेन, वर्गणाऽष्टविधा मता ॥१०४॥ - इदमिति । कर्म । पौद्गलिकमिति । पुद्गलनिर्वृत्तं मूर्त्तमिति यावत् । इदश्चात्रानुमानम्-अदृष्टं पौद्गलिकं; आत्मानुग्रहोपधातहेतुत्वात् , शरीरवत् । ननु किंवर्गणासम्बन्धिनः पुद्गलाः कर्मत्वमापद्यन्ते इत्याह-कार्मणेति। तथा च
कार्मणवर्गणासम्बन्धिन एव पुद्गलस्कन्धा आत्मना कर्मत्वमापाद्यन्त इति भावः । · ननु वर्गणा कतिविधेत्याह- औदारिकादिति । औदारिक-वैक्रिया-हारकतैजसो--च्छ्वास-भाषा-मन:- कार्मणवर्गण भेद।दष्टविधा वर्गणेति । एताश्च जघन्यतोऽप्यभव्यानन्तगुण-सिद्धानन्तभागकल्पपरमाणुसमुदायरूपा उत्कर्षतस्तु स्वस्वानन्ततमभागेन विशेषाधिका बोध्याः । एवमेता अष्टौ वर्गणा जीवग्रहणप्रायोग्या बोध्याः । अन्यथाऽन्तराऽन्तराऽग्रहणान्तरीयवर्गणाभेदेन ध्रुवाचित्तादिवर्गणाभेदेन च तासां बहूनां सद्भावात् । एवं चौदा रिकादिसम्बन्धी परमाणुः कार्मणादिवर्गणात्वेन परिणमति, कार्मणा दिसम्बन्धी चौदारिकादित्वेन । एवं पृथ्यादि जलादित्वेन जलादि च पृथ्व्यादित्वेनापि परिणमतीति बोध्यम् ॥१०॥ अथ प्रकारान्तरेण कर्मभेदानाह
प्रकृत्यादिविधाभिश्च, चतुर्धा कर्म कीर्तितम् ।। प्रकृत्यादीति । प्रकृति-स्थित्यनुभाग-प्रदेशभेदात् कर्म चतुर्विधम् । तत्र कर्मणां ज्ञानावारकत्वादिस्वभावः प्रकृतिः । प्रतिनियतकालावस्थानरूपा