________________
१३८ स्थितिः, सप्ततिकोटाकोटिप्रमाणादिः । शुभाशुभादिरनुभागः । बहुतरतमादिविभागरूपाः प्रदेशाः ॥
अथ कर्मबन्धहेतूनाहमिथ्यात्वाऽविरतियोग-कपायाश्चेति बन्धकाः ॥१०५॥ . प्रकृत्यां च प्रदेशे च, कारणं योग आहितः।
अनुभागे स्थितौ च स्यात् , कपायः कारणं किल ॥१०६॥ मिथ्यात्वेति । तत्राभिग्रहिकादिकं मिथ्यात्वं पञ्चविधम् । पृथ्वीकायाद्यविरत्यादिकाऽविरतिदिशविधा । मनोयोगादि का योगाः पञ्चदशविधाः । अनन्तानुबन्ध्यादिकाः कषायाः पञ्चविंशतिविधाः । अत्र योगात् प्रकृतिबन्ध-प्रदेशबन्धी भवतः, कषायाच्चानुभागबन्ध-स्थितिबन्धावित्याह-प्रकृत्यामिति । स्पष्टम् ।
॥१०५ १०६ ॥ अत्र कर्मणां न बन्ध एव केवलः, किन्तु बद्धानां सङ्क्रमादिरपीति बन्धसङ्क्रमादिहेतु करणमाह
यथासम्भवयेतेषा-मष्टधा करणं मतम् । .... एतेषामुदयादिः स्याद् , द्रव्यक्षेत्रादिभेदतः ॥१०७॥ ज्ञानदर्शनचारित्र-प्रभृति स्याद् यथायथम् ।
क्षयोपशान्तिभावेन, चैतेषामेव कर्मणाम् ॥१०८॥ यथासम्भवमिति । इत्थं च सम्यक्त्वमोहनीयादेबन्धाऽभावेऽपि, आयुरादीनां परस्परं सङ्कमाऽभावेऽपि, ज्ञानावरणीयादीनामुपशमाऽभावेऽपि न क्षतिः। अष्टधेति । बन्धन-सङ्क्रमणो-द्वर्तना-ऽपवर्तनो-दीरणो-पशमनानिधत्ति-निकाचनाभेद दष्टविधं करणमित्यर्थः । करणं च बन्धसङ्क्रमादिहेतुरामनो वीर्यपरिणतिविशेष एव । तत्र बन्धः कर्मपुद्गलानां जीवप्रदेशैः सहान्यो.. न्यानुगती करणम् । अन्यकर्मरूपतया व्यवस्थितानां प्रकृतिस्थित्यनुभागप्रदेशानामन्यकर्मरूपतया व्यवस्थापनं सङ्क्रमः । तद्भेदावेबोदर्तनापवर्त्तने; ते च कर्मणां