________________
स्थित्यनुभागाश्रये । तत्र स्थित्यनुभागयोः प्रभूतीकरणमुद्वर्त्तना । तयोर्हस्वीकरण: मावर्त्तना । अनुदयप्राप्तस्य कर्मदलिकस्योदयावलिकायां प्रवेशनमुदीरणा । उदयोदीरणानिधत्तिनिकाचनाकरणाऽयोग्यत्वेन कर्मणां व्यवस्थापनमुपशमना । उद्वर्त्तनाऽपवर्त्तनाऽन्यशेष करणाऽयोग्यत्वेन व्यवस्थापनं निधत्तिः । सकल करणाऽयोग्यत्वेनावश्यवेद्यतया व्यवस्थापन निकाचनेति । कर्मणामुदयादौ बाह्यस्य द्रव्यादेरपि हेतुबमस्तीत्याह-एतेषामिति । कर्मणामित्यर्थः । उदयादिरिति । आदिपदात्.क्षयोपशम-क्षयोपशमा ग्राह्याः । द्रव्यक्षेत्रादीति । आदिपदात्कालभावभवा बोध्याः । तत्र द्रव्यं जिनप्रतिमादिकं, क्षेत्रं सिद्धक्षेत्रादिकं, कालः पर्युषणादिको, भावः शुभात्मपरिणतिः, भवो देवभवादिरिति । ननु कर्मक्षयोपशमादिभ्यः किं भवतीत्याह-ज्ञानेति । तत्र ज्ञानदर्शनावृतिक्षयोपशमेन क्रमाज्ज्ञानदर्शने; मोहनीयक्षयोपशमात् सम्यक्त्व चारित्रे; अन्तरायक्षयोपशमे दानादयो भवन्ति । एतच्च सर्व क्षायोपशमिकं बोध्यम् । तत्तत्कर्मणां क्षये तु क्षायिकं भवति । एवं मोहनीयस्योपशमे सन्यकवचारित्रे औपशमिकेऽपि स्यातामिति संक्षेपः
॥ १०७-१०८ ॥ अथाऽमुक्तजीवस्वरूपमाहचतुर्विधा अमुक्ताः स्यु-नरकादिप्रभेदतः । रत्नप्रभादिभेदेन, नारकाः सप्तधा मताः ॥१०९॥ . पश्चाक्षा एव विज्ञेया-मुक्त्वा तिर्यक्रशरीरिणः । - एकेन्द्रियादिभेदेन, तिर्यश्चः पञ्चधा मताः ॥११०॥ .
आद्याः पृथ्वी-पय-स्तेजो-वरेण्यु-बन-भेदतः । सूक्ष्माश्च बादराश्चैते, द्वीन्द्रियाद्या अनेकधा ॥१११॥ गर्भजेतरभेदेन, द्विधा च मनुजा मताः ।
भवनपत्यादिभेदेन, देवताश्च चतुर्विधाः ॥११२॥ .... चतुर्विधा इति । संसारिणो जीवा नारकास्तिर्यञ्चो मनुष्या देवाश्चेति चतुविधाः । नारकानाह-रत्नप्रभेति । रत्नप्रभा-शर्कराप्रभा-वालुकाप्रभा-पङ्कप्रभा