________________
२४०
धूमप्रभा-तमःप्रभा - तमस्तमःप्रभाभेदान्नारकाः सप्तविधाः । अत्र तिरश्चो वर्जयिवा नारकमनुष्यदेवाः पञ्चेन्द्रिया एवेत्याह-पञ्चाक्षा इति । ननु तर्हि तिर्थञ्चः कतिविधा इत्याकाङ्क्षायामाह-एकेन्द्रियादीति। एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय - चतुरिन्द्रिय-पञ्चेन्द्रियभेदात् तिर्यञ्चः पञ्चप्रकारा इत्यर्थः । तत्रैकेन्द्रियादिभेदानाह-- आधा इत्यादि । पृथ्वीकाया-ऽकाय-तेजःकाय-वायुकाय-वनस्पतिक्रांयभेदादेकेन्द्रियाः पञ्चविधाः । एते पञ्चापि पुनः सूक्ष्मा बादराश्चेति द्विधा । तंत्र सूक्ष्मनामकर्मोदयवर्तिनः सूक्ष्मा बादरनामकर्मोदयवर्तिनश्च बादराः । द्वीन्द्रियाद्या इति । तत्र शङ्खकृम्यादयो द्वीन्द्रियाः, मत्कुणकीटिकादयस्त्रीन्द्रियाः, वृश्चिकमक्षिकादयश्चतुरिन्द्रियाः । एवं मत्स्याश्वसर्पनकुलहंसादयः पञ्चेन्द्रियास्तियश्चः । ते पुनः समासतो द्विधा-गर्भजाः सम्मूर्छिमाश्चेति । अथ मनुष्यानाह-गर्भज इति । मनुष्या गर्भनाः सम्मूळिमाश्चेति द्विविधां इत्यर्थः । अत्रेदं बोध्यम्-जरायुजा मनुष्यगोमहिष्यादयः, अण्डजाः सर्पमत्स्यहंसादयः, पोतजा हस्तिनकुलभारण्डादयश्च गर्भजा उच्यन्ते । नारकदेवाश्चो पपातजा उच्यन्ते । शेषा एकेन्द्रियादयो गर्भनभिन्ना मनुष्याः पञ्चन्द्रिय-तिर्यञ्चश्च सम्मूर्छनजा उच्यन्त इति । अथ देव भेदानाह-भवनपत्येति । भवनवासिनो व्यन्तरा ज्योति का वैमानिकाश्चेति चतु विधा देवाः । तत्र भवनवासिनोऽसुर--नाग-विद्युत्-सुपर्णा-ऽग्नि-वातरतनितोदधि-द्वीप-दिक्कुमारः। व्यन्तराः किन्नर-किम्पुरुप-महोरग-गान्धर्व-यक्षराक्षस-भूत-पिशाचाः। ज्योतिष्काश्चन्द्र--सूर्य-ग्रह-नक्षत्र-तारकाः । वैमानिकाः कल्योपपन्नाः कल्पातीताश्च । तत्राद्याः सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारानतप्राणतारणाच्युताः। द्वित.या नव ग्रैवेयका विजयवैजयन्त--जयन्ता-ऽपराजित-सर्वार्थसिद्धाश्चेति ॥१०९-११०-१११.११२॥
अथैते सर्वेऽपि जीवाः पर्याप्ता अपर्याप्ताश्चेति द्विविधा भवन्तीत्याहपर्याप्तेतरभेदेना-ऽमी से द्विविधा मतः । पर्याप्तिरात्मनः शक्ति-विशेषःसा च षड्डिया ||११३॥
पर्याप्त इति । स्पष्टम् । ननु का नाम पर्याप्तिरिति चेदत आह पर्याप्तिरिति । आहारादिपुद्गलग्रहणपरिणमनहेतुरात: शक्तिविशेषः पर्याप्तिः । सा