________________
१४१
च षविधा, आहार-शरीरे - न्द्रियो-च्छ्वास-भाषा -- मनःपर्याप्तिभेदात् । ताश्च यथाक्रममेकेन्द्रियाणां द्वीन्द्रियादीनां संज्ञिनां चतुः-पञ्च-षट्र-सङ्ख्या भवन्ति ।।११३॥ : पुनर्विशेषतो जीवस्वरूपमाह----
सर्वेऽमी ससमुद्घाताः, सलेश्याश्च सयोगिनः ।
यथार्हस्थानिनः प्रोक्ताः, सर्वभावप्रदर्शिभिः ॥१४॥ - सर्व इति । तत्र समुद्घातो वेदनादिभिः सहैकीभावेन प्राबल्येन कर्मणां घातः । तत्र वेदनासमुद्घातोऽसद्वेद्य कर्माश्रयः । कषायसमुद्घातः कषायाख्य चारित्रमोहनीयकर्माश्रयः । मारणान्तिकसमुद्ध तोऽन्तर्मुहूत्तशेषायुःकर्माश्रयः । वैक्रियतैजस हारकसमुद्घाता यथाक्रमं वैक्रियतैजसाहारकशरीरनामकर्माश्रयाः । केवलिसमुद्घातः सदसदेव शुभाशुभनामोच्चनीचैत्रिकर्माश्रयः । लेझ्या च योगान्तर्गतद्रव्यरूपकृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषः । योगश्च परिस्पन्दक्रिया मनोवचःकायनिमित्तक आत्मव्यापार इति यावदिति ।।११४।। .. अथ समुद्घातादिभेदानाह --
वेदनादिसमुद्घाताः, सप्त शास्त्रे प्रकीर्तिताः। . . . लेश्याः कृष्णा च नीला च, कापोती तैजसी तथा ॥११५॥ · · पद्मा शुक्ला च, योगास्तु, त्रय एव प्रकीर्तिताः । ...मनोयोगो वचोयोगः, सत्यादिकश्चतुर्विधः ॥११६॥ सप्तधा काययोगः स्यात् , काय औदारिकस्तथा । वैक्रियश्चाऽऽहारकश्च, तैनसः कार्मणस्तथा ॥११७॥
वेदनेति । वेदना-कषाय-मारणान्तिक वैक्रिय-तैजसा-हारक-केवलिसमुद्घातभेदात् सप्तविधः समुद्रातः । तत्र मनुजेषु सप्त, देवेष्वन्त्यद्वयवर्जाः पञ्च, तिर्यङ्मारकयोराद्याश्चत्वारः । लेश्या इति । कृष्ण-नील-कापोत-तेजःपद्म-शुक्ललेश्याभेदात् षड्विधा लेश्या। तत्र तिर्यङ्मनुजदेवेषु षट् ,