________________
१४२ नारकेष्वाद्यास्तिनः। योगा इति । मनोवचःकाययोगभेदात् त्रिविधो योगः । तदुत्तरभेदानाह-मन इति । सत्या-ऽसत्य-सत्यमृषा--ऽसत्याऽमृषामनोयोगभेदान्मनोयोगश्चतुर्था । एवं वचनयोगोऽपि चतुर्धा । काययोगश्चौदारिकोदारिकमिश्र-वैक्रिय-वैक्रियमिश्रा--ऽहारका-ऽहारकमिश्र-कार्मणकाययोगभेदात् सप्तविधः । तैजसस्तु कार्मण एवान्तर्भूतः । एवं पञ्चदश योगाः । तत्र देवनारकेष्वेकादश चतुर्विधम-योग-वचनयोग-वै क्रय-वैक्रियमिश्र-कार्मणरूपाः । तिर्यक्षु त एवौदारिकौदारिकमिश्राधिकास्त्रयोदश । मनुष्येषु पञ्चदशापीति । काययोग इत्यत्र कायः शरीरमिति तभेदानाह-काय इति । शरीरमित्यर्थः । तचौदारिक-वैक्रिया-ऽहारक-तैजस-कार्मणभेदात् पञ्चविधमिति । तत्रासारस्थूलद्रव्यवर्गणासमारब्धमौदारिकम् । अनेकाद्भुताश्रयं विविधगुणर्द्धिसम्प्रयुक्तपुद्गलवर्गणाप्रारब्धं वैक्रियम् । शुभतरशुक्ल विशुद्धद्रव्यवर्गणाप्रारब्धं प्रतिविशिष्टप्रयोजनकमाहारकम् । तेजोगुणोपेतद्रव्यवर्गणासमारब्धं शापानुग्रह सामर्थ्याविर्भावनमभ्यवहृताहारपाचनशक्तियुक्तं च तैजसम् । अशेषकर्मराशेराधारभूतमशेषकर्मप्रसवसमर्थं वा कर्मणमिति ॥११५-११६-११७ ॥
अथ कस्य कतिविधं तदित्याहतिर्यश्चश्च मनुष्याश्च, ज्ञेया औदारिकाङ्गिनः । नारकाश्च सुरा लब्धि-मन्तो वैक्रियकायिनः ॥११८॥ वपुश्चाहारकं शुद्धं, स्याच्चतुर्दशपूर्विणाम् । तैजसं कार्मणं च स्या-दाभवं सर्वदेहिनाम् ॥११९॥
तिर्यश्च इति । लब्धिमन्त इति । ते च तिर्यञ्चो मनुष्याश्च बोध्याः । शुद्धमिति । असावद्यमित्यर्थः । चतुर्दशेति । आहारकाम\षध्यादिलब्धिमतामिति शेषः । आभवमिति । आसंसारमित्यर्थः । तथा च देवनारकाणां वैक्रियं लैजसं कार्मणं चेति शरीरत्रयम् । तिरश्चामौदारिकमपि । मनुष्याणां त्वाइारकमपीति भावः ॥ ११८-११९ ।।