________________
• अथ जीवानां स्थानमाहरत्नप्रभादिपृथ्व्यः स्यात् , स्थानं नारकदेहिनाम् । विमानाद्यासिनो देवाः, तिर्यश्चः सर्वलोकगाः ॥१२०॥ आपुष्कराद्धमास्थानं, मनुष्याणां मतं जिनैः । जम्बूद्वीपादयो द्वीपाः, समुद्रा लवणादयः ॥१२१॥
रत्नप्रभादीति । आदिपदात् शर्कराप्रभाद्यास्तमस्तमःप्रभान्ता ग्राह्याः । विमानादीति । आदिपदाद् भवनान्यावासाश्च बोध्याः । सर्वलोकेति । इदं चेकेन्द्रियानाश्रित्य बोध्यम् । द्वीन्द्रियादीनां लोकैकदेश एव वृत्तित्वादिति । आपुष्करामिति । सर्वाभ्यन्तरः प्रथमो जम्बूद्रोपो योजनलक्षप्रमाणायामविष्कम्भस्ततो लवणासमुद्रो द्विगुणस्ततो धातकीखण्डो लवणाद् द्विगुणस्ततस्तस्माद् द्विगुणः कालोद समुद्रस्ततस्तस्माद् द्विगुणः पुष्करवः द्वीपस्तस्य च यद, तन्मर्यादीकृत्येति भावः । जम्बूद्वीपेति । आदिपदाद् धातकीखण्डादयः स्वयम्भूरमणद्वीपान्ता बोध्यास्ते चाऽसङ्ख्याताः । लवणेति । आदिपदात् कालोदसमुद्रादयः स्वयम्भूरमणसमुद्रपर्यन्ता बोध्यास्तेऽप्यसङ्ख्याता इति ॥१२०-१२१॥ ... तदेवं निरू पेतं जीवद्रव्यमथ पुद्गलद्रव्यमाह
एवञ्च पुद्गला ज्ञेया-रूपिणः परिणामिनः । ' दशधा परिणामश्च, बन्धनादिप्रकारतः ॥१२२॥
एवमिति । पुद्गललक्षणमाह-रूपिण इति । तथा च रूपवत्त्वं पुद्गलस्य लक्षणम् । वाय्यादिपुद्गलानामप्यस्ति रूपवत्त्वं स्पर्शवत्त्वादिति नाव्याप्तिः । अनुपलम्भस्त्वनुद्भूतत्वादेवेति । परिणामिन इति । बन्धनादिपरिणामवन्त इत्यर्थः । परिणामश्चाऽर्था तरगमनमात्ररूपाः पर्यायविशेषा एव । परिणामभेदानाह-दशधेति । बन्धन -गति-संस्थान-भेद-वर्ण-गन्ध-रस--ऽगुरुलघु-शब्द-दाद दशप्रकारः परिणाग इति ॥१२२॥