________________
१४४
अथ बन्धनादीनाहस्निग्धरूक्षप्रभेदेन, भावितं बन्धनं द्विधा । स्पृशन्ती चास्पृशन्ती च, गतिरेवं द्विभेदिनी ॥१२३॥ संस्थानं पञ्चधा तत्र, परिमण्डलमादिमम् । वृत्तं व्यस्रं चतुरस्र-मायतं चैव कीर्तितम् ॥१२४॥ . . पश्चधैवं च भेदः स्यात्, खण्डश्च प्रतरस्तथा । . चूर्ण कोऽनुतटिका चो-करिका तत्र पञ्चमः ॥१२५॥ वर्णोऽप्येवं स चैवं स्यात्, कृष्णो नीलश्च रोहितः। . पीतः शुक्लश्च, गन्धश्च, सुरभ्यसुरभी द्विधा ॥१२६॥ तिक्तश्च कटुकश्चैव, कषायश्वाम्बलस्तथा । मधुरश्चेति विज्ञेयो, रसः पञ्चविधः खलं ॥१२७।। स्पर्शा अष्ट मताश्चैवं, कर्कशश्च मृदुर्गुरुः । लघुरेवं च शीतोष्णौ, स्निग्धरूक्षौ तथैव च ॥१२८॥ अगुरुलघुराख्यात-एकाकारो बुधेश्वरैः। . . शब्दाख्यः परिणामस्तु, भाव्यतेऽथो विपश्चिमः ॥१२९॥ स द्विधा वा चतुर्धा च, द्विधा तत्र विभाव्यते ।। शुभाशुभतया यद्वा, वैस्रसिकः प्रयोगजः ॥१३०॥ ततश्च विततश्चैव, घनश्च शुपिरस्तथा। सङ्घर्षश्वाथ भाषा च, स्यात् पोटेति प्रयोगजः ॥१३१॥ चतुर्भेदाश्च तत्र स्यु-विमुच्यान्तिमयुग्मकम् । पुद्गलानां परिणामाः, संक्षेपादित्युदाहृताः ॥१३२॥ .
तत्र पूर्व द्वयोर्बहूनां वैकत्वपरिणतिलक्षणं बन्धनपरिणाममाह-स्निग्धेति । स्निग्धबन्धो रूक्षबन्धश्चेति द्विधा बन्धः । तत्र जघन्यगुणस्निग्धरूक्षपुद्गलानां न