________________
१४५
IPP
1
परस्परं बन्धः, अजघन्यगुणानां तु स्यात् । तत्रापि समगुणस्निग्धानां समगुणस्निग्धैः सह समगुणरूक्षाणां च समगुणरूक्षैः सह न बन्धः, किन्तु स्निग्धानां द्विकाद्यधिकस्निग्धैरेव सह रूक्षाणां च द्विकाद्यधिकरूक्षैः सह भवति बन्धः स्निग्धानां रूक्षाणां परस्परं तु विषमाणां समानामपि अजघन्यगुणानां भवत्येव बन्ध इति । अथ देशान्तरप्राप्तिलक्षणं गति परिणाममाह-स्पृशन्तीति । स्पृादगतिरस्पृशद्गतिरिति गति परिणामो द्वेधा । तत्र वस्त्वन्तरं स्पृशतो यो गतिपरिणामः स आधः । यद्वस्तु केनापि सहापान्तराले न संस्पर्शनमनुभवति तस्य द्वितीयः । अथ रचनाविशेषरूपं संस्थानपरिणाममाह - संस्थानमिति । तंत्र वलयादिवद् यदन्तः शुषिरं बहिश्च मण्डलाकृत्यवस्थिताण्वोधं तत्परिमण्डलम् । कुलालचक्रादिवद् यदन्तरपि पूर्ण तद् वृत्तम् । यत् शृङ्गाटकादिवत् त्रिकोणं, तत् त्र्यस्रम् । कुम्भिकादिवच्चतुष्कोणं चतुरस्रम् । यच्च दण्डादिवद् दीर्घं तदायतमिति । अथ विभक्तप्रत्ययहेतुलक्षणं भेदपरिणाममाह - पञ्चधा इति । तत्र लोहखण्डादिवत् खण्डः, अभ्रपटलादिवत् प्रतरः, क्षिप्तमृत्पिण्डादेरिव चूर्णकः, इक्षुत्वगादिवदनुतटिकाभेदः, उत्कीर्यमाणप्रस्थादिवदुत्करिकाभेद इति । अथ वर्णपरिणाममाह--वर्ण इति । स च सामान्यतः कृष्ण- नील-रक्त-पीत-शुक्लभेदात् पञ्चप्रकारः । गन्धमाह-सुरभिरिति । स्पष्टम् । रसमाह - तिक्त इति । स्पष्टम् । स्पर्शमाह - स्पर्शा इति । स्पष्टम् । तत्र कर्कशगुर्वादिस्पर्शानामपि स्पर्शनेन्द्रियजन्यप्रत्यक्षविषयत्वात् स्पर्शत्वं स्पष्टमेवेति । अथाऽगुरुलघुपरिणाममाह- अगुरुलघुरिति । अगुरुलघुपरिणामस्त्वेकाकार इत्यर्थः । अत्र यद् द्रव्यं न गुरुकमधोगमनस्वभावं नापि लघुकमूर्ध्वगमनस्वभावं तदगुरुलघुकमुच्यते; परिणाम परिणामवतोरभेदात् । अत्रैतद्विपक्षो गुरुलघुपरिणामोऽपि बोध्यः । तत्राष्टस्पर्शा बादरा औदारिक- वैक्रिया - Sहारक- तैजसपुद्गला गुरुलघवः । चतुःस्पर्शाः शेषाच्च भावा अगुरुलाघव इति । अथ शब्दपरिणाममाह - शब्दाख्य इति । तत्र प्रथमं द्वैविध्यमाह - शुभाशुभेति । प्रतीतार्थमेव । प्रकारान्तरेण द्वैविध्यमाह-वैस्रमिक इति । स्वाभाविक इत्यर्थः । स च जलधरध्वानादिः । प्रयोगज इति । जीवव्यापार
१०