________________
1
निष्पन्न इत्यर्थः । अथैतद्भेदानाह - तत इति । तत्र पटहादिभवस्ततः; वीणादिभवो विततः; कांस्यभाजनादिभवो घनः ; वेण्वादिभवः शुषिरः; क्रकच काष्ठादिसंघर्षभवः संघर्षः । यश्च व्यक्तवाग्भिर्वर्णपदवाक्याकारेण भाष्यते स भाषारूप इति । अथ ग्रन्थान्तरोक्तं चातुर्विध्यमाह - चतुर्भेदा इति । शब्दा इति शेषः । विमुच्येति । अन्तिमयुग्मेति । चरमभेदद्वयं मुक्त्वेत्यर्थः । तथा च ग्रन्थान्तरे तत - वितत - घन - शुषिरभेदाच्चतुर्भेदा अपि शब्दाः प्रोक्ता इति भावः । तत्र ततं वीणादिकं, विततं पटहादिकं बोध्यम्, शेषं पूर्ववदेवेति ॥ १२३ - १३२ ॥
तदेवं निरूपिताः पुद्गल परिणामाः । छायादयोऽपि तत्परिणाम विशेषा एवेत्याह
एवं छायातपोद्योता-दयोऽप्यागमवेदिभिः । पुद्गलानां परिणाम - विशेषाः परिकीर्तिताः ॥ १३३॥
छायेति । आदिपदादन्धकारादिकं ग्राह्यम् । तत्र छायायाः शीतलत्वाज्जलवत् ; आतपस्योष्णत्वादनलवत् ; उद्योतस्याह्लादकत्वात् पयोवत्; अन्धकारस्य च दृष्टिप्रतिरोधकारित्वात् कुड्यादिवद् आवारकत्वाच्च पटादिवत् पुद्गलपरिंणामत्वं सुप्रीतमेवेति ॥ १३३॥
तदेवं निरूपितं पुद्गलद्रव्यं, अथावसरायातं कालद्रव्यमाह - अथ निरूप्यते कालो, वर्त्तनालक्षणः स च । परिणामा नवत्वाद्या- वर्त्तनात्वभिधीयते ॥ १३४ ॥
अथेति । काललक्षणमाह-वर्त्तनेति । जनकताविशेषसम्बन्धेन वर्त्तना सम्बन्धित्वं कालस्य लक्षणमिति । ननु का सा वर्त्तनेत्याह- परिणामा इति । नवत्वजीर्णत्वादिपरिणामा एव वर्त्तना कथ्यते इति भावः ॥ १३४ ॥
अथ क्षेत्रतः कालमानमाहसार्द्धद्वीपद्वयाम्भोधि - द्वैतमानः प्रकीर्त्तितः ॥