________________
१५७
साति । अर्धतृतीयद्वीपसमुद्रद्वयाक्रान्तक्षेत्रपरिमाणस्तिर्यग्मानेन पञ्चचत्वारिंशद्योजनलक्षप्रमाण ऊर्ध्वमधश्चाष्टादशशतयोजन प्रमाणः कालो नाम द्रव्यम् , तत्रैव वर्तनालिङ्गसद्भावात् ॥ अयं च काल एक एव वर्तमानसमयरूपो वास्तवः, नातीताऽनागताः समयाः; तेषां विनष्टत्वेनाऽनुत्पन्नत्वेन चाऽसत्त्वात् । अत एव चायमद्धासमय इत्युच्यते । अत एव चात्र न स्कन्धदेशादिविभागः । आवलिकादयस्तु व्यवहारार्थ कल्प्यमाना बुद्धिसमुचितसमयसमुदयरूपत्वादीपचारिका एवेत्याह
एक एवाऽस्त्ययं कालो, वर्तमानः स वास्तवः ॥१३५॥ कल्प्यन्ते व्यवहारार्थं, पुनरावलिकादयः । समयानामसङ्ख्याना-मेका साऽभिहिता बुधैः ॥१३६॥ समयस्त्वविभाज्योऽति-सूक्ष्मः कालः समीरितः ।
द्रव्यपर्यायरूपो वा, सोऽभिरूपैः प्रकीर्तितः ॥१३७॥ . एक इत्यादि । स्पष्टम् । आवलिकामाह-समयानामिति । जघन्ययुक्ताऽसङ्ख्यातसमयप्रमितकावलिकेत्यर्थः । समयमाह-समय इति । यः कालविशेषः परमसूक्ष्मः सर्वविदाऽपि द्विधा विभक्तुमशक्यः स समय इत्यर्थः । अत्र मतान्तरमाह-द्रव्येति । अन्ये तु द्रव्यपर्यायरूप एव कालस्तस्यैव वर्तनारूपत्वात् सर्वत्र सम्भवितत्वाच्चेति भावः ॥१३५-१३६-१३७॥ .' अथोच्छ्वासादिकालभेदानाह
ताः सङ्खोया भवेदेक-उच्छ्वासश्च बलीयसः । ताभ्यां द्वाभ्यां भवेत्प्राणः, स्तोकः स्यात्तैश्च सप्तभिः ॥१३८॥ तावद्भिस्तैलवः प्रोक्तः, सार्धष्टात्रिंशता च तैः । नालिकैका भवेद् द्वाभ्यां, ताभ्यां मुहूर्त ईरितः ॥१३९॥ . त्रिंशता तैरहोरात्र-एवमग्रेऽपि विस्तरः ।