________________
१४८ • ता इति । आवलिका इत्यर्थः । उच्छ्वासश्चेत्यत्र चकारान्निःश्वासोऽपि ग्राह्यः । सोऽपि ह्युच्छ्वासमान एव । बलीयस इति । अत्र नीरोगस्याऽप्राप्ता. ध्वखेदस्य सुखासनसमाश्रितस्याऽव्याकुलस्य यून इत्यपि बोध्यम् । शेषं स्पष्टम् । विस्तर इति । तथाहि-पञ्चदशभिरहोरात्रैः पक्षः, ताभ्यां द्वाभ्यां मासः, तैदिशभिश्च संवत्सरः । यद्यप्यादित्यतुं चन्द्राभिवर्द्धिताख्याः पञ्च संवत्संरास्तदनुसारिदिवसादीनामप्यनैयत्यं, तथापि कर्मसंवत्सर मुद्दिश्यैष क्रमो बोध्यः । एष एव च ऋतुसंवत्सरः सायनसंवत्सर इत्यप्युच्यते । एवं पञ्चभिः संवत्सरैयुगम् । एवं चतुरशीत्या वर्षलक्षैः पूर्वाङ्गम् , चतुरशोत्या तल्लक्षरेकं पूर्वमित्यादि. विभावनीयमिति कालः ॥१३८-१३९॥
तदेवं द्रव्यपदार्थो निरूपितोऽथ पर्यायपदार्थनिरूपणावसर इत्याहएवं निरूपितं द्रव्यं, पर्यायोऽयो निरुच्यते ॥१४॥ स द्वेधा सहभाव्याधः, क्रमभावी द्वितीयकः। संज्ञाविशेषतश्चेमौ, गुणः पर्याय इत्यथ ॥१४१॥
एवमिति । स्पष्टम् । तं विभजते-स इति । सहभावी क्रमभावी चेति द्वेधा पर्यायः । संज्ञेति । तत्र सहभावी पर्यायो गुण इति विशेषसंज्ञया गीयते, क्रमभावी तु पर्याय इति सामान्यसंज्ञामधितिष्ठतीति भावः । अत्र यावद्दव्यभावित्वे सति सकलपर्यायानुगामित्वमित्यन्यत्रोक्तं गुणलक्षणमपि प्रोक्तलक्षणादनतिरिक्तमेव, सहभावित्वत एव सकलपर्यायानुगामिताया लाभादिति ॥ ॥१४०-१४१॥
अथ गुणान् विभजतेतत्रास्तित्वं च वस्तुत्वं, द्रव्यत्वं च प्रमेयता । तथाऽगुरुलघुत्वं च, प्रदेशत्वं तथैव च ॥१४२।। ज्ञानं च दर्शनं सौख्यं, वीर्यस्पर्शी रसस्तथा । गन्धवौँ तथा ज्ञेयौ, गतिहेतुत्वकं तथा ॥१४३॥ ..