________________
स्थित्यवगाहहेतुत्वं, वर्तनाहेतुता तथा । चेतनत्वाचेतनत्वे, मूर्तत्वामूर्त्तते इति ॥१४४॥
तत्रेति । अस्तित्वादयोऽमूर्त्तत्वान्ता द्वाविंशति र्गुणा इत्यर्थः । तत्राऽस्तित्वं सद्भूतत्वं, यतः 'सदिति व्यवहारः । वस्तुत्वं सामान्यविशेषोभयात्मकत्वम् । द्रव्यत्वमपि पर्यायानुगामित्वाभिव्यङ्गयं गुण एव । प्रमेयत्वं प्रमाविषयत्वं स्वाश्रयनिरूपित विषयत्वसम्बन्धेन प्रमात्वमेव वा । अगुरुलघुत्वं गम स्वनाम्ना ख्यातः प्रवचनसिद्धो गुणः, येन द्रव्याणामगुरुलघुव्यवहृतिः सम्पयते । प्रदेशत्वमविभागिपुद्गलावगाह्यक्षेत्रमात्रव्यापिष्णुत्वं येनानुगतप्रदेशव्यवहारः । ज्ञानादयस्तु प्रतीता एव ! चेतनत्वमनुभवाख्यो गुणः । अचेतनत्वमनुभवराहित्यम् । मूर्तत्वं रूपादिमत्त्वम् । अमूर्त्तत्वं रूपादिराहित्यमिति ।। १४२-१४३--१४४॥
अथात्र सामान्यविशेषविभागमाहविज्ञेयाः षट् च सामान्या-स्तत्रास्तित्वादयो गुणाः । विशेषा द्वादश प्रोक्ता-बुधैर्ज्ञानादिका गुणाः ॥१४५॥ सामान्याश्च विशेषाश्च, चेतनत्वादयो मताः।
बिज्ञेया इति । तत्रास्तित्वादयः प्रदेशत्वान्ताः षट् सामान्यगुणाः । विशेषा इति । ज्ञानादयो वर्तना हेतुत्वान्ता द्वादश विशेषगुणाः । सामान्या इति । चेतनत्वादयोऽमूर्त्तत्वान्ताश्चत्वारः सामान्यगुणा विशेषगुणाश्चेति । तत्राऽस्तित्व-द्रव्यत्व-प्रमेयत्वा-ऽगुरुलघु--प्रदेशत्व-चेतनत्वा-ऽमूर्तत्वान्यष्टावात्मनः सामान्यगुणाः; धर्मास्तिकायादीनां चेतनत्वस्थानेऽचेतनत्वसहितानि तान्येवाष्टो; पुद्गलस्य च चेतनत्वाऽमूर्तत्वस्थानेऽचेतनत्व--मूतत्वान्वितानि । ज्ञान-दर्शनसुख-वीर्य-चेतनत्वा-ऽमूर्त्तत्वानि षडात्मनो विशेषगुणाः । पुद्गलस्य स्पर्शरस. गन्धवर्णाऽचेतनत्वमूर्त्तत्वानि षट् । धर्मास्तिकायादीनां च क्रमशो गति-स्थित्यवगाह-वर्तनाहेतुत्वानामेकैकोऽचेतनत्वाऽमूर्त्तत्वयुगलमिति त्रयस्त्रयो गुणा इति
॥१४५॥