________________
तदेवं निरूपितो गुणोऽथ पर्यायमाहपर्यायश्च द्विधा द्रव्य-गुणपर्यायभेदतः ॥१४६।। मनुष्यत्वादिराद्यः स्याद्-नीलादिर्द्वितीयो मतः । एवमन्यप्रकाराच्च, पर्यायाणां भिदा मता ॥१४७॥
पर्याय इति । क्रमभावी पर्यायस्तु द्रव्यपर्याय-गुणपर्यायभेदाद् द्विविध इत्यर्थः । मनुष्यत्वादिरिति । तत्र मनुष्यत्व-स्कन्धत्वादिव्यपर्यायः, नीलपीतादिमत्यादिश्च गुणपर्याय इत्यर्थः । यद्वा गुणविकाराः पर्यायाः, ते च द्वादश; अनन्ताऽसङ्ख्यातसङ्ख्यातभागगुणवृद्धिभ्यां तथाऽनन्ताऽसङ्खयातसङ्ख्यातभागगुणहानिभ्यां च षट् षडू इति । प्रकारान्तरेणापि पर्यायभेदः सम्भवतीत्याहअन्यप्रकारादिति । तत्र व्यञ्जनार्थपर्यायाभ्यामपि - पर्यायद्वैविध्यम् । तत्र स्थूल: कालान्तरस्थायी शब्दानां सङ्केतविषयो व्यञ्जनपर्यायो गोत्वादिकं, सूक्ष्मवर्तमानकालवर्त्यर्थपरिणतिरर्थपर्यायः। इत्थं च भूतत्व-भविष्यत्त्वसंस्पर्शरहितशुद्धवर्तमानकालत्वावच्छिन्नं वस्तुस्वरूपमर्थपर्याय इति । एवं स्वभावपर्याया अगुरुलघुद्रव्यविकाररूपाः। नरनारकादिचतुर्गतिरूपाश्चतुरशीतिलक्षयोनयो वा विभावपर्याया इति । एवमेकत्व-पृथक्त्व-सङ्ख्या-संस्थान-संयोग-विभागादयोऽपि पर्यायविशेषा एव । एवं निरूपिताः सामान्यतः पर्यायाः। विशेषतस्तु एकस्य विधिनिषेधात्मनो घटादिद्रव्यस्य स्वद्रव्यक्षेत्रकालभावैरस्तित्वादीनां परद्रव्यक्षेत्रकालभावैर्नास्तित्वादीनां स्वपर्यायाणां, परपर्यायाणां च पटादिगतास्तित्वनास्तित्वादीनामानन्त्यमेव । ननु पटादिगतास्तित्वादीनां धर्माणां घटगतत्वाभावात् कथं घटपर्यायत्व. मिति चेत् , न; परपर्यायाणामज्ञाने तद्वयावृत्ततया स्वपर्यायाणामवसातुमशक्यस्वेन तज्ज्ञानोपयोगितया घटाऽसम्बद्धानामपि तेषां परपर्यायतया घटपर्यायस्याभ्युपगमात् । धनादीनां चैत्राद्यसम्बद्धत्वेऽपि तदुपयोगात्तदीयत्वव्यवहारस्य लोकसिद्धत्वात् । इत्थमेव "एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः" इति तत्र तत्र सुष्ठुक्तमिति संक्षेपः ॥ इति पर्यायः ॥१४६-१४७॥