________________
१३६
पशान्तमोह-क्षीणमोह-सयोगिकेवल्य-योगिगुणस्थानभेद भिन्नया गताः परम्परगता इत्यर्थः । ननु सिद्धा भगवन्तः कुत्र स्थिताः कथं वा गतिक्रियाकर्माभावात्तत्र गता इत्याशङ्कायामाह-प्राक्प्रयोगेति । पूर्वप्रयोगाऽसङ्गत्वबन्धच्छेदोर्ध्वगौ-वैस्ते कर्मक्षयानन्तरमेवालोकान्ताद् गच्छन्ति । लोकाग्रेति । उत्तानकच्छत्रसंस्थान संस्थिता येषत्प्राग्भारा पृथ्वी श्वेत सुवर्णमयी तस्या ऊर्ध्वं योजने लोकान्तो भवति, तस्य च योजनस्य यदुपरितनं चतुर्थं गव्यूतं, तस्य च गव्यूतस्य यः सर्वोपरितनः षड्भागस्तस्मिन् लोकाग्ररूपे ते सिद्धभगवन्तः शाश्वतं स्थिता. इत्यर्थः । अथ तत्र गताः किमवगाहनास्ते इत्याह-पूर्वदेहेति । इह चरममनुष्यभावे उत्कर्षतः पञ्चधनुःशतप्रमाणं जघन्यतो हस्तद्वयमानं यत्संस्थानं तेषामासीत्, तस्माद् योगनिरोधसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानबलेन वदनोदरादिरन्ध्रपूरणेन तृतीयभागेन हीना सिद्धानामवगाहना भवति । सा च जघन्यत एका रनिरष्टौ चाङ्गुलानि, उत्कर्षतस्तु त्रीणि शतानि त्रयस्त्रिंशदधिकानि धनुषां धनुस्त्रिभागश्चति । अथ सिद्धभेदावाह-तीर्थातीर्थेति । तत्र तीर्थं प्रवचनं सङ्घः प्रथमगणधरो वा । तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः । तीर्थस्याऽनुत्पादेऽपान्तराले व्यवच्छेदे वा ये सिद्धास्तेऽतीर्थसिद्धाः । अत्रैव च तीर्थातीर्थ-तीर्थकरातीर्थकर-स्वयम्बुद्धप्रत्येकबुद्ध-बुद्धबोधित-स्त्री- पुरुष-नपुंसकलिङ्ग-स्वाऽन्य-गृहिलिङ्गैकाऽनेकसिद्धरूपपञ्चदशप्रकारा अपि सिद्धा अन्तर्भवन्तीति बोध्यम् । सर्वकर्मेति । ज्ञानावरणीयादिसकलकर्मरहिता इत्यर्थः । अथ प्रसङ्गात् किञ्चित् कर्मस्वरूपमाहकर्मति । वक्ष्यमाणमिथ्यात्वादिहेतुभिर्जीवेन यत् क्रियते तत् कर्म । आत्मत्वेनाविशिष्टानामपि जीवानां नरत्वनृपत्वादिवैचित्र्यनिर्वाहकशक्तिमत्तया तत्सिद्धिः । अष्टेति । तस्य च कर्मणो मूलभेदा अष्टाविति ॥१००-१०१॥
मथ तान् भेदानाहज्ञानावरणमाद्यं स्याद्-दर्शनावरणं परम् ॥१०२॥ वेद्यं च मोहनीयं चा-युष्कं च नाम गोत्रकम् । ... विघ्नं चाष्टममाख्यातं, शुभाशुभमिति द्विधा ॥१०३॥