________________
अथ तृतीयः परिच्छेदः ॥
तदेवमुक्तं जीवलक्षणनिरूपणप्रसङ्गात् प्रमाण - नय - निक्षेप स्वरूपम् । अथात्मभेदप्रतिपादनावसर इति तं निरूपयति
अथात्मा द्विविधः प्रोको, मुक्तामुक्तविभागतः । मुक्तिः कर्मक्षयो ज्ञेयः परमानन्द इत्युत ॥ ९९ ॥
अथेति । मुक्कामुक्केति । आत्मा द्विभेदः सिद्धः संसारी चेत्यर्थः । मुक्तिलक्षणमाह- मुक्तिरिति । कर्मक्षयस्य ध्वंसरूपत्वान्न पुरुषार्थत्वमित्यत आहपरमानन्द इति । इत्थं च स्वसमानकालीन प्रागभावाऽसमानाधिकरणदुःखसादिरूपा मुक्तिरित्यपि निरस्तम् ||१९||
अथ सिद्धजीवानां स्वरूपमाह
मुक्ताः सिद्धा गताः पारं परम्परगताव 1 प्राक्प्रयोगादिना गत्वा, लोकाग्रस्थानसंस्थिताः ॥ १००॥ पूर्वदेहत्रिभागेन, मिताकाशावगाहनाः । तीर्थातीर्थप्रकारेण द्विविधाः परिकीर्तिताः ॥ १०१ ॥ सर्वकर्मविनिर्मुक्ताः; कर्माष्टप्रभिदं मतम् ॥
"
मुक्ता इति । पूर्वोक्तरूपां मुक्ति प्राप्ताः । सिद्धा: - सितं बद्धं कर्म ध्मातभस्मीकृतं यैस्ते सिद्धाः । लब्धानन्तज्ञानादिस्वरूपेण परिनिष्ठिताः, न तु नैयायिकाद्यभिमतजडस्वरूपा इति भावः । एतेऽपि संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिष्यन्ते इत्यत आह- गताः पारमिति । संसारस्य प्रयोजनव्रातस्य वा पर्यन्तं प्राप्ता इत्यर्थः । इत्थम्भूता अपि कैश्विद् यदृच्छावादिभिरक्रमसिद्धत्वेनापि गीयन्ते इत्यत आह- परम्परगता इति । परम्परया ज्ञानदर्शनचारित्ररूपया मिथ्या दृष्टि - सासादन - सम्यगूमिध्यादृष्टि- अविरत सम्यग्दृष्टिदेशविरति- - प्रमत्ता - प्रमत्त-- निवृत्त्य - निवृत्तिचादर सम्पराय - सूक्ष्मसम्परायो -