________________
१३॥
"पर्यायाथिकयोगस्तु, भावस्यैव विभावितः । शुद्धत्वाद्भावमिच्छन्ति, शब्दादिका नयास्त्रयः ॥९७॥
चत्वारः सर्वनिक्षेपा-निच्छन्तीति मतं परम् । । एतैनीवादिका भावा, निरूप्यन्ते यथागमम् ॥९८॥
द्रव्यार्थिकेति । द्रव्यार्थिकनयस्य नाम स्थापना द्रव्यं चेति त्रयमभिमतमित्यर्थः । पर्यायार्थिकेति । पर्यायार्थिकनयस्य च भाव एव · मत. इत्यर्थः । इदं चाद्यस्य भेदौ सङ्ग्रहव्यवहारौ, नैगमस्याऽनयोरेवान्तर्भावात् ; द्वितीयस्य ऋजुसूत्रादयश्च वारो भेदा इत्याचार्यश्रीसिद्धसेनमंतानुसारेण । श्रीजिनमद्रगणिक्षमाश्रमणपूज्यपादानां तु पर्यायार्थिकस्य भावनिक्षेप एव, द्रव्यार्थिकस्य तु चत्वारोऽपीति मतमित्याह-शुद्धत्वादिति । शब्देति । शब्दसमंभिरूढैवम्भूतानां शुद्धत्वाद् भाव एव, पर्यायार्थिकाश्चैते । चत्वार इति । नैगम-सङ्ग्रह-ज्यवहारर्जुसूत्राणामविशुद्धत्याञ्चत्वारोऽपि निक्षेपाः, द्रव्यार्थिकावै। इति भावः । मत परिमिति । द्वितीयं मतमित्यर्थः । ऋजुसूत्रो नामभावावेवेच्छतीत्यन्थे । सङ्ग्रहव्यवहारौ स्थापनाव स्त्रीन् निक्षेपानिच्छत इति च केचिदाहुः । एतैश्च नामादिनिक्षेपैीवाजीवादयः पदार्था निक्षेप्या इत्याहएतैरिति । अत्र नामादीनां सर्ववस्तुव्यापित्वं बोध्यं, तथैव सूत्राभिप्रायात् । नन्वत्र व्यभिचारः, अनभिलाप्यभावेषु नामनिक्षेपाऽप्रवृत्तेः; द्रव्यजीवाद्यसिद्धयाऽ मिलाप्यभावव्यापिताया अप्यभावादिति चेत् । अत्र केचित् , तत्तव्यभिचारस्थानान्यत्वविशेषणान्न दोष इति । अपरे तु केवलिप्रज्ञारूपमेव नाम अनभिलाप्यभावेष्वस्ति, द्रव्यजीवश्च मनुष्यादिरेव भाविदेवादिजीवपर्यायहेतुत्वादिति । गुणपर्यायवियुक्तत्वेन बुद्धया कल्पितो द्रव्यजीव इत्यन्ये । जीवशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्यजीव इत्यप्याहुः । तत्त्वं तु केवलालोकशालिनो भगवन्त एव विदन्तीति ।। ९६-९७-९८॥
इति परोक्षादिनिक्षेपान्तनिरूपणाख्यो द्वितीयः परिच्छेदः ॥