________________
१३३
दारकस्य शक्रादिपर्यायशब्दाऽनभिधेयपरिणतिरियमेव वा यथाऽन्यत्रावर्तमानेन यदृच्छाप्रवृत्तेन डित्थडवित्थादिशब्देन वाच्या । तत्त्वतोऽर्थनिष्ठा, उपचारतः शब्दनिष्ठा च । मेर्वादिनामापेक्षया यावद्दव्यभाविनी, देवदत्तादिनामापेक्षया चाऽयावद्दव्यभाविनी। यथा वा पुस्तकपत्रादिलिखितां वस्त्वभिधानभूतेन्द्रादिवर्णावली। यत्तु वस्तु तदर्थवियुक्तं तदभिप्रायेण स्थाप्यते चित्रादौ तादृक्षाकारमक्षादौ च निराकारं, स स्थापनानिक्षेपः; यथा जिनप्रतिमा । भूतस्य भाविनो वा भावस्य कारणं यन्निक्षिप्यते स द्रव्यनिक्षेपः । यथाऽनुभूतेन्द्रपर्यायोऽनुभविष्यमाणेन्द्रपर्यायो वा इन्द्रः। क्वचिदप्राधान्येऽपि द्रव्यनिक्षेपो यथाऽङ्गारमर्दको द्रव्याचार्यः । क्वचिदनुपयोगेऽपि, यथाऽनाभोगादिना क्रियमाणा जिनपूजादि क्रिया द्रव्यक्रियेति । विवक्षितक्रियानुभूतिविशिष्टं स्वतत्त्वं यन्निक्षिप्यते स भावनिक्षेपः । यथेन्दनक्रियापरिणतो भावेन्द्रः । ननु भाववर्जितानां नामादीनां कः प्रतिविशेष इति चेदुच्यते । नामद्रव्याभ्यां स्थापना ताबदाकाराभिप्रायबुद्धि क्रियाफलदर्शनाद भिद्यते । द्रव्यमपि भावपरिणामिकारणत्वान्नामस्थापनाभ्यां भिद्यते । एवं नामापि स्थापनाद्रव्याभ्यामुक्त. वैधादेव भिद्यते इति । ननु भाव एव वस्तु, किं तदर्थशून्यैर्नामादिभिरिति चेद, न । नामादीनामपि वस्तुपर्यायवेन सामान्यतो भावत्वाऽनतिक्रमात् । अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिभेद चतुष्टयपरामर्शदर्शनात् । प्रकरणादिनैव विशेषपर्यवसानात् । भावाङ्गत्वेनैव वा नामादीनामुपयोगः, जिननामादिना भावोल्लासानुभवात् । एतदपि भिन्नवस्तुगतनामाद्यपेक्षयोक्तं, अभिन्नवस्तुगतानां तु नामादीनां भावाविनाभूतत्वादेव वस्तुत्वं; सर्वस्य वस्तुनः स्वाभिधानस्य नामरूपत्वात् , स्वाकारस्य स्थापनारूपत्वात् , कारणतायाश्च द्रव्यरूपत्वात् , कार्यापनस्य स्वस्य च भावरूपत्वादित्यलम् ॥
अथ नामादिनिक्षेपा नयैः सह योज्यन्तेद्रव्याथिकनयस्य स्या-दिष्टं नामादिकत्रयम् ॥१६॥