________________
१३२
वाऽनर्पितनथाः । तत्राचे एकद्वयादि समयसिद्धाः स्वसमानसमयसिद्धैरेव तुल्याः, द्वितीये तु सर्वे सिद्धाः परस्परं तुल्यरूपा एव । एवं लोकप्रसिद्धार्थानुवादपरों व्यवहारनयः, यथा श्यामो भ्रमरः । तात्त्विकार्थाभ्युपगमपरस्तु निश्चयः, यथा पञ्चवर्णो भ्रमरः । अथवा एकनयमतार्थग्राही व्यवहारः, सर्वनयमतार्थग्राही च निश्चयः । एवं ज्ञाननयः क्रियानयः शुद्धनयोऽशुद्ध नयश्चेति संक्षेपः ॥ ९४ ॥
"
अथ नयाभासानाह-
विपरीतो नयाभासः फलादिकं च पूर्ववत् ॥
विपरीत इति । स्वाभिप्रेता दंशा दितरांशापलापी नयाभासो नयप्रतिबिम्बात्मा दुर्नय इत्यर्थः । एवं द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकामासः, यथा वेदान्तसाङ्ख्यमतम् । पर्याय मात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः, यथा . सौत्रान्तिकमतम् । एवं नैगमाभासादयोऽपि स्वयमेव बोध्याः । तदेवं निरूपितां नयाः स्वरूपसङ्ख्याविषयैः । अथ फलमतिदिशति - फलादिकमिति । आदिपदान्नयफलयोर्भेदाभेदौ बोध्यौ । तत्र वस्त्वेकदेशाज्ञाननिवृत्तिर्नयस्यानन्तर फलं, वस्त्वंशविषयाश्योपादानत्यजनोपेक्षा बुद्धयः परम्परफलमिति ॥९४॥
तदेवमुक्तं नयस्वरूपमथ प्रसङ्गा निक्षेप स्वरूपमाह -
शब्दार्थरचनारूपो, निक्षेपश्चाथ मान्यते ॥ ९५ ॥
शब्दार्थेति । प्रकरणादिवशेनाप्रतिपत्त्यादिव्यवच्छेद को यथास्थानविनियोगाय शब्दार्थरचनाविशेषो निक्षेपः । मङ्गलादिपदार्थनिक्षेपान्नाममङ्गलादिविनियोगोपपत्तेश्च तस्य फलवत्त्वम् । तदुक्तम्- "अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच निक्षेपः फलवानिति ॥ ९५ ॥
तद्भेदानाह
स नाम - स्थापना - द्रव्य - भावभेदाच्चतुर्विधः ॥
स इति । निक्षेत्र इत्यर्थः । तत्र प्रकृतार्थनिरपेक्षा नामार्थान्यतर परिणतिनमनिक्षेपः । यथा सङ्केतितमात्रेणान्यार्थस्थितेनेन्द्रादिशब्देन वाच्यस्य गोपाल