________________
श्रीजिनभद्रगणिक्षमाश्रमणपूज्या भगवन्तस्तु ऋजुसूत्रो द्रव्यार्थिक स्यैव भेद् इत्याहुः। तत्र सामान्यविशेषाद्यनेकधर्मोपनयनपरोऽध्यवसायो नैगमः, यथा पर्याययोर्द्रव्ययोः पर्यायद्रव्ययोश्च मुख्यामुख्यतया विवक्षणपरः; क्रमात् सञ्चैतन्यमात्मनि, वस्तु पर्यायवद् द्रव्यम् , क्षणमेकं सुखी विषयासक्तजीव इत्यादिः । न चैवं द्रव्यपर्यायोभयावगाहित्वेनारय प्रामाण्यं, प्राधान्येनोभयावगाहिन एख ज्ञानस्य प्रमाणत्वात् । सामान्यमात्रग्राही परामर्शः सङ्ग्रहः । स द्वेवा- परोऽपरश्च । तत्राशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः प्रथमः, यथा विश्वमेकं सदविशेषात्; द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तभेदेषु गजनिमीलिकामवलम्बमानो द्वितीयः, यथा धर्माधर्मादिद्रव्याणामैक्यं पर्यायत्वाविशेषादित्यादिः । सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः, यथा यत् सत्तद् द्रव्यं पर्यायो वेत्यादि । ऋजु-वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूचयन्नभिप्राय ऋजुसूत्रः, यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः। कालादिभेदेन ध्वनेरर्थभेदं . प्रतिपद्यमानः .शब्दः, यथा बभूव भवति भविष्यति सुमेरु रित्यत्रातीतादिकालभेदेन 'सुमेरोंमेंदप्रतिपत्तिः। काल-कारक- लिङ्ग-सङ्ख्या -पुरुषो-पसर्गाश्च कोलादयः। पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः, यथेन्दनादिन्द्रः दारणात् पुरन्दर इत्यादिः । शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्य वेनाभ्युपगच्छन्नेवम्भूतः, यथेन्दनमनुभवन्निन्द्र इत्यादिरिति ॥९३॥ ... अथार्थशब्दप्राधान्येन नयविभागमाह
एतेष्वर्थनयाः केचित् , केचित् शब्दप्रधानकाः ॥१४॥
एतेष्विति । एतेषु सप्तसु नयेषु । केचिदिति । आद्याश्चत्वारो नया अर्थनयाः; प्राधान्येनार्थगोचरत्वादर्थनया इत्यर्थः । केचिदिति । अन्त्यास्त्रयः शब्दप्रधानकाः प्राधान्येन शब्दगोचरत्वाच्छन्दनया इत्यर्थः । एवमेतेषु पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितगोचर इति. बोध्यम् । एवमन्येऽपि भेदा बोद्धव्याः । तथा हि-विशेषग्राहिणोऽर्पितनयाः, सामान्यग्राहिण