________________
१३०
गृह्यते । सर्वेषामपि मते तज्ज्ञानविषयकज्ञानेन तज्ज्ञानप्रामाण्यं गृह्यत इति । वस्तुतस्तु प्रामाण्याऽप्रामाण्यद्वयमप्यभ्यासदशायां स्वतः, अनभ्यासदशायां तु परतो गृह्यते । तत्र स्वतस्त्वं संवादकबाधकज्ञानाऽनपेक्षया जायमानत्वं, तदपेक्षया जायमानत्वं च परतस्त्वम् । अयमपि विभागो विषयापेक्षया । स्वरूपे तु सर्वत्र स्वत एव प्रामाण्यनिश्चय इति । प्राभाकरमते त्वप्रामाण्यमेव नास्ति, सर्वेषां ज्ञानानां यथार्थत्वात् । विसंवादिप्रवृत्तौ च भेदाऽग्रहस्यैव हेतुतेति । तदेतद्व्यवहारनयापेक्षया न समीचीनं, शब्दनयापेक्षया त्विष्टमेवेत्यलम् ॥ ... ... तदेवमुक्तं प्रमाणं, अथ तदेकदेशरूपनयतदाभासानाह- . . # स्यात् प्रमाणैकदेशत्वाद् , भिन्नः प्रमाणतो नयः । . द्रव्यार्थिको मतः पूर्वो-ऽन्यः पर्यायार्थिको बुधैः ॥९२॥ " स्यादिति । ननु नयः प्रमाणमेव स्वार्थव्यवसायंकवादित्यत आह प्रमेति । तथा च नयस्य स्वार्थंकदेशनिर्णायकवेन स्वार्थव्यवसायकत्वासिद्धिरिति । तथा च प्रमाणान्नयस्य भेदः । प्रमाऽप्रमोभयविलक्षणमेव नयज्ञानमिति भावः । नय इति । प्रमाणपरिच्छिन्नस्यानन्तधर्मात्मकस्य वस्तुन' एकदेशग्राही तदितरांशाऽप्रतिक्षेपी अध्यवसायविशेषः । तं विभजते-द्रव्याथिक इति । द्रव्यार्थिकपर्यायार्थिकभेदान्नयो द्वेधेत्यर्थः । तत्राद्यः प्राधान्येन द्रव्यमात्रग्राही, प्राधान्येन पर्यायमात्रमाही तु द्वितीयः ॥९२॥
पुनरतं विभजतेनैगमश्च सङ्ग्रहश्च, व्यवहार इति त्रिधा । आयोऽपरश्चतुर्धा स्यात् , प्रथम ऋजुसूत्रकः ॥९३॥ शब्दः समभिरूढः स्या-देवम्भूतश्चतुर्थकः ॥
नैगम इति । आद्यः-द्रव्यार्थिक इत्यर्थः । अपरः-पर्यायार्थिक इत्यर्थः । नैगमसङ्ग्रहव्यवहारभेदाद् द्रव्यार्थिकस्त्रिधा। ऋजुसूत्र-शब्द-समभिरूढैवम्भूतभेदात् पर्यायार्थिकश्चतुर्धा । इदश्च श्रीसिद्धसेनभगवतामभिमतम् ।