________________
१९९
अथ दृष्टान्ताभासमाहदृष्टान्ताभास आख्यातो द्विविधो धौतकल्मषैः । एकैको नवधा चैव-माभासान्तरमह्यताम् ॥९१॥
दृष्टान्ताभास इति । द्विविध इति । साधर्येण दृष्टान्ताभासो वैधम्र्येण दृष्टान्ताभासश्चेति । एकैक इति । तत्र साधर्म्यण दृष्टान्ताभासो नवधैवम्साध्यधर्मविकलः, साधनधर्मविकलः, उभयधर्मविकलः, सन्दिग्धसाध्यधर्मा, सन्दिग्धसाधनधर्मा, सन्दिग्धोभयधर्मा, अनन्वयोऽप्रदर्शितान्वयो विपरीतान्चयश्चेति । तत्राऽऽयो यथा-शब्दोऽपौरुषेयोऽमूर्तत्वाद् दुःखवदिति, एवमन्येऽपि बोध्याः । वैधये॒ण दृष्टान्ताभासरत्वेवं नवधा-असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्यतिरेकः, सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः, सन्दिग्धोभयव्यतिरेकः, अव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यति- " रेकवेति । आद्यं यथा-भ्रान्तमनुमानं प्रमाणत्वात् । यत्पुनर्धान्तं न भवति न तत्प्रमाणं यथा स्वप्नज्ञानमिति । एवमन्येऽपि स्वयमेव बोध्या इति । आभासान्तरमिति । उपनयाद्याभासागमाभासं दिकमित्यर्थः । तत्र साध्यधर्म साध्यधर्मिणि साधनधर्म वा दृष्टान्तधर्मिणि उपसंहरतो निगमनाभासः । अनाप्तवचनप्रभवं ज्ञानमागमाभासमिति स्वरूपाभासः । प्रत्यक्षमेवैकं प्रमाणमित्यादिसङ्ख्यानं सङ्ख्याभासम् । सामान्यमेव, विशेष एव, तद्व्यं वा स्वतन्त्रमित्यादिस्तस्य. विषयाभासः । अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं फलाभासमिति ॥९१॥ .' एवं ज्ञानस्य प्रामाण्यमप्रामाण्यं चोभयमप्युत्पत्तौ परत एव, ज्ञानकारणगतगुणदोषापेक्षणात् । ज्ञप्तौ तु प्रामाण्यं परत एवेति नैयायिकाः । इदं ज्ञानं प्रमा, संवादिप्रवृत्तिजनकत्वाद् , यन्नैवं तन्नैवं यथाऽप्रमा। एवं इदं पृथिवीत्वप्रकारकं ज्ञानं प्रमा, गन्धवति पृथिवीत्वप्रकारकज्ञानत्वाद् इत्येवमनुमेयमिति भावः । मीमांसकास्तु स्वत एवः तज्ज्ञानविषयकज्ञानेन तज्ज्ञानप्रामाण्यं गृह्यत इत्यर्थः । तत्र गुरुमते ज्ञानं स्वप्रकाशम् । भट्टमते ज्ञानमतीन्द्रियं, ज्ञानजन्या जातता प्रत्यक्षा तया च ज्ञानमनुमीयते । मुरारिमिश्रमतेऽनुव्यवसायेन ज्ञानं