SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अनैकान्तिकमाहअन्यथानुपपत्तेश्च, सन्देहात् स्यात्तृतीयकः ॥८७॥ विपक्षवृत्तिसन्देह-निर्णयाभ्यां द्विधाऽस्त्ययम् ॥. अन्यथेति । यस्याऽन्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिक इति । स द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्ति कश्चेति । आयो यथा--शब्दो नित्यः प्रमेयत्वात् । द्वितीयो यथा-विवादापन्नः पुरुषः सर्वज्ञो न भवति, वक्तृत्वात् । अत्र हि वक्तृत्वं विपक्षे सर्वज्ञ सन्दिग्धवृत्तिक मिति ॥८७॥ अथात्र मतान्तरमुपन्यस्य प्रतिक्षिपतिचतुर्धा पञ्चधा चैव, हेत्वाभासो मतोऽपरैः ॥८८॥ . अकिश्चित्करयोगेन, चतुर्धा यन्मतोऽपरैः। तन्नाप्रयोजकात्मा हि, पक्षाभासः स कीर्त्यते ॥८९॥ एवं सत्प्रतिपक्षश्च, बाधश्च नातिरिच्यते । असिद्धाऽनतिरिक्तत्वा-दिति जैनमतं मतम् ॥९॥ चतुर्थेत्यादि । अपरैरिति । तत्र. चतुर्विधो. धर्मभूषणैर्मतः, पञ्चविधश्च नैयायिकैरिति बोध्यम् । अकिश्चित्करेति । तथा च पूर्वोक्तस्त्रिविधो हेत्वाभासोऽकिञ्चित्करयोगेन चतुर्विध इति । तन्नेति । अप्रयोजकात्मेति । सिद्धसाधनो बाधितविषयश्चेति द्विविधस्याप्यप्रयोजकाह्वयस्याऽकिञ्चित्करस्य प्रतीतनिरा कृतसाध्यधर्मविशेषणाख्यपक्षाभासभेदाऽनतिरिक्तन्वमेवेति भावः । एवं च बाधोऽपि नातिरिक्तस्तस्यापि बाधितविषयत्वेन निराकृतसाध्यधर्मविशेषणाख्य पक्षा भास एवान्तर्भावादित्यादित्याह-एवमिति । अकिञ्चित्करवदित्यर्थः । बाध इति पदं व्यवहितमप्यत्रायोज्यम् । बाध इति । कालात्ययापदिष्ट इत्यर्थः । सत्प्रतिपक्षश्चेति । प्रकरणसमोऽपीत्यर्थः । नातिरिच्यत इति । अत्र हेतुमाह-असिद्धेति । तुल्यबलसाध्यतद्विपर्ययसाधकहेतुद्वयरूपे सत्यस्मिन् प्रकृतसाध्यसाधनयोरन्यथानुपपत्त्यनिश्चयेऽसिद्ध एवान्तर्भावादित्यन्यत्र विस्तरः ॥८८-८९-९०॥
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy