________________
१२७
पक्षाभासा इति । त्रय इति । प्रतीत-निराकृता-ऽनभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः। आयो यथा-आर्हतान् प्रत्ययधारणवर्ज समस्ति जीव इत्यादिः। अयं च सिद्धसाधनं प्रसिद्धसम्बन्ध इत्यपि गीयते । द्वितीयमाहमध्यम इति । निराकृतसाध्यधर्मविशेष इत्यर्थः । अनेकेति । अनेकप्रकारः । कथमित्याह-प्रत्यक्षेति । प्रत्यक्षानुमानागमलोकस्वव चनादिभिः साध्यधर्मस्य निराकरणादित्यर्थः। यथा नास्ति भूतविलक्षण आत्मा, नास्ति सर्वज्ञ इत्यादिः । तृतीयो यथा-स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदत इति पक्षाभासाः ॥८४॥ .
अथ हेत्वाभासानाहैहेत्वाभासः परिज्ञेयो, भाषितो मुनिपुङ्गवैः । असिद्धश्च विरुद्धश्चा-नैकान्तिक इति त्रिधा ॥८५॥
हेत्वाभास इति । हेतुलक्षणविकलत्वेनाऽहेतुरपि तद्वदाभासमान इत्यर्थः । तभेदानाह-असिद्ध इति ॥८५॥ • असिद्धमाह
अप्रतीतस्वरूपः स्या-दसिद्धो द्विविधः स च । । . उभयांसिद्ध आद्यश्चा-ऽन्यतरासिद्धकोऽपरः ॥८६॥ . . . अप्रतीतेति । अप्रतीयमानस्वरूपो हेतुरसिद्ध इति । स्वरूपाप्रतीतिश्चाज्ञानात् सन्देहाद् विपर्ययाद्वा । स च द्विविधः । द्वैविध्यमेवाह-उभयेति । उभयासिद्धोऽन्यतरासिद्धश्चति । तत्राद्यो यथा शब्दः परिणामी चाक्षुषत्वात् । द्वितीयो पथा अचेतनास्तरवः, विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादिति ॥८६॥
विरुद्धमाहसाध्यविपर्ययव्याप्तो, विरुद्धः प्रथितो भुवि ।
साध्येति । साध्यविपरीतव्याप्तो हेतुविरुद्धः । यथा शब्दोऽपरिणामीकृतकत्वादिति । कृतकत्वं हि अपरिणामित्वविरुद्धेन परिणामित्वेन व्याप्तमिति !!