________________
प्रमाणादिति । स्वेष्टेति । स्वेष्टं प्रमाणफलसांवृतत्वं तसिद्धिविरोधइति भावः । तथाहि-प्रमाणफलयोः सांवृतत्वस्याऽपारमार्थिकत्वे तयोः पारमार्थिकत्वापत्या परमार्थवृत्त्यैव तदेष्टव्यम् , तदपि प्रमाणादेव, प्रमाणस्यापि सांवृत्तत्वग्राहकस्य सांवृतत्वे तस्मादसांवृतस्य प्रमाणफलसांवृतत्वस्यासिद्धिः । असांवृतत्वे च प्रमाणफलव्यवहारसांवृतत्वप्रतिज्ञाविरोधो व्यक्त एवेति भावः ।।८.२॥
अथोपसंहरतिएवं प्रमाणमाख्यातं, स्वरूपादिचतुष्टयम् । विपरीतस्तदाभासो, विशेषस्तु प्रदर्यते ॥८३॥
एवमिति । उक्तप्रकारेणेत्यर्थः । स्वरूपसङ्ख्याविषमफलैः प्ररूपितं प्रमाणमिति भावः । अथ तदाभासं निरूपयति-स्वरूपादीति । विपरीत इति । प्रमाणसम्बन्धिनः स्वरूपचतुष्टयाद् यदपां तत् प्रमाणस्य स्वरूपाभासः सङ्ख्याभासो विषयाभासः फलाभासो वा । तत्राज्ञानात्मकाऽनात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाः सामान्यतः स्वरूपाभासाः। विशेषतस्त्वेवम्-अम्बुधरादौ गन्धर्वनगरादिज्ञानं सांव्यवहारिकाभासं, शिवराजर्षेरसङ्ख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानमवध्याभासरूपं पारमार्थिकाभासं; मनःपर्याय-केवलज्ञानयोस्तु विशुद्धत्वादाभासचिन्तैव न। अननुभूते. मुनिमण्डले तन्मुनिमण्डलमिति ज्ञानं स्मरणाभासं, तुल्ये पदार्थे स एवायमित्यादिज्ञानं प्रत्यभिज्ञाभासं, असत्यामपि व्याप्तौ तदभासस्तर्काभासः, स श्यामो मैत्रा. तनयत्वादित्यादौ । एवं पक्षाभासादि समुत्थं ज्ञानमनुमानाभासमवसेयम् । अत्र स्वार्थपरार्थभेदोऽपि बोध्यः ॥८३॥
तत्र पक्षाभासानाहपक्षाभासास्त्रयस्तत्र, मध्यमोऽनेकभेदभृत् । प्रत्यक्षप्रमुखैर्यस्मात् , साध्यधर्मनिराकृतिः ॥८॥