________________
१२५ फलमज्ञाननिवृत्तिः, सर्वेषामादिमं मतम् । आदानत्यजनोपेक्षा-बुद्धयश्चापरं फलम् ॥७९॥ केवलस्य तु विज्ञेय-मौदासीन्य फलं परम् ।।
फलमित्यादि । स्पष्टम् । अज्ञानेति । अज्ञानस्य विपर्ययादेनिवृत्तिः प्रध्वंसः स्वपरव्यवसितिरूपा फलं बोद्धव्यम् । आदिममिति । अन्तरफलमित्यर्थः। आदानेति । उपादेये ग्रहणबुद्धिः, हेये त्यागबुद्धिः, उपेक्षणीये उपेक्षाबुद्धिरिति भावः । अपरमिति । परम्पराफलमित्यर्थः । इदं च केवलव्यतिरिक्तप्रमाणानां बोध्यम् । केवलस्येति । केवलज्ञानस्य साक्षात् समस्तार्थानुभवेऽपि हानोपादानेच्छाविरहान्माध्यस्थ्यमेव फलम् , केवलज्ञानवतां भगवतां सिद्धप्रयो. जनत्वादेवेति ॥७८-७९॥
अथ प्रमाणप्रमातृभ्यां फलस्य भेदाभेदावाहतत्स्याद भिन्नमभिन्नं च, प्रमाणाच्च प्रमातृतः ॥८॥
क्रिया-क्रियावतोर्यस्माद्-भेदाभेदविभूषिता । .. कर्ता हि साधकः प्रोक्त-स्तन्निवा भवेत् क्रिया ॥८१॥ . . तदिति । प्रमाणमित्यर्थः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेरेकप्रमातृतादात्म्येन फलस्य प्रमाणादभेद । साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वाच्च कथञ्चिद् भेदोऽपि । एवं प्रमातृफलयोरपि कथञ्चिद् भेदाभेदावेव । क्रियाक्रियावतोः परस्परं कथञ्चिद् भेदाभेदकलितत्वादित्याहक्रियेति । अन्यथा प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गात् । अत्र साधकः प्रमाता कर्ता, साध्या च स्वपरव्यवसितिः क्रियेति बोध्यम् ॥८०-८१॥
अथ सकलप्रमाणफलव्यवहारसांवृतत्ववादिनं प्रतिक्षिपतिप्रमाणादिव्यवहृति-रियं स्यात् पारमार्थिकी। संवृत्या तदुरीकारे, स्वेष्टसिद्धिविरोधिता ॥८२॥