________________
स्वास्माकीनः; यतो यो नयो नयान्तरसापेक्षः स प्रमाणमेव, यस्तु नयान्तरनिरपेक्षः स नयः, स च नियमान्मिथ्या दृष्टिरेवे ते । अन्ये तु न दैगम्बर एव नयदुनयविभागः। हेमसूरिभिरपि “सदेव" सत् स्यात्सदिति त्रिधाऽर्थो, मीयेत दुर्नीतिनयप्रमाणैः” इत्यादि विभज्याभिधानात् । आकरे नयतदाभासविभक्तेबोधितत्वाच्चेत्यन्यत्र विस्तरः ।
तदेवं निरूपिते प्रमाणस्य स्वरूपसङ्ख्ये । अथ विषयो निरूपणीय इत्याहकथ्यते विषयश्चाथ, परिच्छेद्यं च गोचरः ॥७५॥ अनेकान्तात्मकं वस्तु, सामान्येतरमुख्यकम् । । तद्गोचरश्च तद् द्वेधा, तिर्यगूर्ध्वत्वभेदतः ॥७६॥ विशेषोऽपि द्विधा प्रोक्तो, गुणपर्यायभेदतः। सहभावी गुणो धर्मः, क्रमभावी तथा परः ॥७॥
कथ्यत इत्यादि । स्पष्टम् । अनेकान्तेति । सामान्यविशेष-सदसदाघनेकान्तात्मकं वस्तु, तद्गोचर इति प्रमाणस्य विषय इत्यर्थः । सामान्य निरूपयति-तदिति । सामान्यमित्यर्थः । तिर्यक्सामान्यमूर्ध्वतासामान्यं चेति द्विप्रकारं सामान्यमित्यर्थः । तत्र प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यं, यथा शबलशाबलेयादिपिण्डेषु गोत्वम् । पूर्वापरपरिणामसाधारणं द्रव्यमूर्खतासामान्यं, कटककङ्कणाद्यनुगामिकाञ्चनवदिति । विशेष निरूपयति-विशेष इति । गुणपर्यायेति । अत्र पर्याययशब्दः सर्वविशेषवाचकोऽपि सहवर्त्तिविशेषवाचिगुणशब्दसान्निध्यात् क्रमवर्तिविशेषवाची बोध्यः । सहभावीति । सहभावी धर्मो गुणो यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिः । क्रमभावी धर्मः पर्यायो यथा तत्रैव सुखदुःखादिरिति ॥७५-७६-७७॥
अथ फलमाहफलं चाथ प्रमाणस्य, द्विविधं परिकीर्तितम् । अनन्तर फलं त्वाद्यं, परम्परफलं परम् ॥७८॥