________________
१२३
दयश्च कालः, आत्मरूपं, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्द इति । तत्र यत्कालमस्तित्वं तत्कालाः शेषा अनन्तधर्मा वस्तुन्येकडेति तेषां कालेनाऽभेदवृत्तिः । यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपं तदेवाऽन्यगुणानामपीत्यात्मरूपेण सा । य एव चाऽधारोऽर्थी द्रव्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेन सा । य एव चाविष्वग्भावसम्बन्धोऽस्तित्वस्य स एवान्येषामिति सम्बन्धेन सा । य एव चोपकारोऽस्तित्वेन वस्तुनः स्वप्रकारकप्रतीतिविषयत्वलक्षणः स एवाऽन्येषामिति उपकारेण सा । य एव च गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्येषामिति गुणिदेशेन सा। य एव च वस्तुनः संसर्गोऽस्तित्वस्याधाराधेयलक्षणः स एवान्येषामिति संसर्गेण सा । य एव च 'अस्ति' इति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एवाशेषानन्तधर्मात्मकस्यापीति शब्देनाऽभेदवृत्तिः । पर्यायार्थिक नयगुणभावेन द्रव्यार्थिकनयप्राधान्यात् । . : द्रव्यार्थिकगुणभावेन पर्यायमर्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः सम्भवति;
समकालमेकत्र नानागुणानामसम्भवात् , सम्भवे वा तदाश्रयस्य भेद प्रसङ्गात् । .नानागुणानां सम्बन्धिन आत्मरूपस्य भिन्नत्वात् , अन्यथा तेषां भेदविरोधात् । स्वाश्रयस्यार्थस्यापि नानात्वात् , अन्यथा नानागुणाश्रयत्वविरोधात् । सम्बन्धस्य चं सम्बन्धिभेदेन भेददर्शनात् , नानासम्बन्धिभिरेकत्रैकसम्बन्धाऽघटनात् । तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्याऽनेकत्वात् , अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधात् । गुणिदेशस्य च प्रतिगुणं भेदात् , तदभेदे संसगिभेदविरोधात् । शब्दस्य च प्रतिविषयं नानात्वात् , सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेरिति कालादिभिर्भिन्नानामभेदोपचारः क्रियते । एवं भेदवृत्तितदुपचाराबपि वाच्याविति । अत्राद्या प्रमाणसप्तभङ्गी, द्वितीया च नयसप्तभङ्गीति गीयते । वस्त्वंशग्राहकत्वेनैव प्रथमातोऽपरस्या विशेषः । इस्थमेव 'सदि' त्युल्लेखवत् 'स्यात् सदेवे' त्युल्लेखोऽपि नयस्यावेदितो भवति, दुर्नयस्य तु 'सदेवे'त्युल्लेखः । केचित्त नयदुनैयविभागो दंगम्बर एव न