________________
स्वात् । विधिकल्पनया युगपद्विधिनिषेधकल्पनया पञ्चमः । निषेधकल्पनया युगपद्विधिनिषेधकल्पनया षष्ठः क्रमतो । विधिनिषेधकल्पनया युगपधिनिषेधकल्पनया च सप्तमः ॥ ७३ ॥
एवं च विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि सप्तैव भङ्गाः, प्रतिपर्याय प्रतिपाद्यानुयोगानां सप्तानामेव सम्भवादित्याह
अनन्तत्वेऽपि धर्माणां, सप्तभङ्गयेव यन्मता। तद्धि पर्यनुयोगानां, सप्तानामेव सम्भवात् ॥७४॥
अनन्तत्व इति । एकत्र जीवादौ वस्तुनि विधीयमाननिषिध्यमानानामनन्तानां धर्माणामभ्युपगमादिति । शेषं स्पष्टम् । तथा च धर्मभेदेनाऽनन्तसप्तभङ्गीसम्भवेऽपि प्रतिधर्म सप्तानामेव भाव इति तात्पर्यम् । पर्यनुयोगानां च . सप्तत्वं सप्तविधतज्जिज्ञासानियमात् । तस्याश्च सप्तत्वं सप्तधैव तत्सन्देहसमुत्पादात् । तस्य सप्तत्वं तु स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरिति ॥७॥
अथ सप्तभङ्गीद्वैविध्यमाहसकलादेशरूपान्य-रूपाभ्यामुदिता द्विधा ॥ . ,
सकलादेशेति । इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च । अखण्डवस्तुविषयत्वेन त्रिष्वेवाद्यभङ्गेषु सकलादेशत्वं, चतुर्यु चोपरितनेष्वेकदेशविषयत्वेन विकलादेशत्वमित्यन्ये । तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपयेन प्रतिपादकं वचः सकलादेशः । नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्याद् भेदोपचाराद् वा क्रमेण प्रतिपादकं वाक्यं विकलादेशः । अभेदवृत्तिप्राधान्यं च द्रव्यार्थि कनयगृहीतसत्ताधभिन्नानन्तधर्मात्मकवस्तुशक्तिकस्य सदा. दिपदस्य कालाद्यभेद विशेषप्रतिसन्धानेन पर्यायार्थिकनयपर्यालोचनप्रादुर्भवच्छ: क्यार्थबाधप्रतिरोधः। अभेदोपचारश्च पर्यायार्थिकनयगृहीतान्यापोहपर्यवसितसत्तादिमात्रशक्तिकस्य तात्पर्यानुपपत्या सदादिपदस्योक्तार्थ लक्षणेति । काला