________________
१२१
सोऽयं शब्दो विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छतीत्याहअयं विधिनिषेधाभ्यां, लभते भङ्गसप्तकम् ॥७३॥
अयमिति । ध्वनिरित्यर्थः । इत्थमेव च परिपूर्णार्थप्रापकत्वलक्षणतात्विक प्रामाण्यनिर्वाहः । क्वचिदेकभङ्गदर्शनेऽपि व्युत्पन्नामतीनामितरभङ्गाक्षेपध्रौव्यम् । यत्र तु 'घटोऽस्ती' त्यादिलोकवाक्ये सप्तभङ्गीसंस्पर्शशून्यता, तत्रार्थप्रापकत्वमात्रेण लोकापेक्षया प्रामाण्येऽपि तत्त्वतो न प्रामाण्यमिति बोध्यम् । एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादंविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी । इदं च लक्षणं प्रमाणनय-सप्तभङ्गयोः साधारण बोध्यम् । तत्र स्यादस्त्येव, स्यान्नास्त्येव, स्यादवक्तव्यमेव, स्याद स्त्येव स्यान्नास्त्येव, स्यादस्त्येव स्यादवक्तव्यमेव, स्यान्नास्त्येव स्याद वक्तव्यमेव, स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेत्युल्लेखः । अत्र तृतीयचतुर्थभङ्गयोः केचिद व्यत्ययमिच्छन्ति । अत्र सर्वत्रैवकार प्रयोगोऽनभिमतव्यावृत्त्यर्थम् । स्यात्' प्रयोगश्च सापेक्षप्रतिनियतस्वरूपप्रतिपत्तये । अत्र प्राधान्येन विधिकल्पनया प्रथमो भङ्गः । प्राधान्येन निषेधकल्पनया द्वितीयः । स्वरूपेण घटादिनाऽस्तित्वविक्षयाऽसत्त्वोपसर्जनसत्त्वप्रतिपादनपर: प्रथमः, पररूपेण पटादिना नास्तित्वविवक्षया च सत्त्वोपसर्जनाऽसत्त्वप्रतिपादनपरो द्वितीयः । शब्दशक्तिस्वाभाव्यादेकोपर्जनेतरप्रधानभावेनैव शाब्धाः प्रतीतेरिति भावः । न चाऽसत्त्वं काल्पनिक सत्त्ववत्तस्य स्वातन्त्र्येणानुभवात् । अन्यथा विपक्षासत्त्वस्य तात्त्विकस्याऽभावेन हेतोर्लक्षणस्याऽसम्भवप्रसङ्गात् । युगपत् प्राधान्येन विधिनिषेधकल्पनया तृतीयः, एकेन पदेन युगपदुभयोर्वक्तुमशक्यत्वात् । अन्यतरत्यादिना कथञ्चिदुभयबोधनेऽपि प्रातिस्विरूपेणैकपदादुभयबोधस्य ब्रह्मणापि दुरुपपादत्वात् । अस्तित्वनास्तित्वधर्मविशिष्टमपि समकालमस्तित्वनास्तित्वाभ्यां वक्तुमशक्यत्वादनिर्वचनीयमिति तु फलितार्थः । प्राधान्येन क्रमिकविधिनिषेधकल्पन्या चतुर्थः । न च क्रमबलादत्र ज्ञानद्वयमेवार्थसिद्धमित्याद्यभङ्गद्वयाऽनतिरेकः, क्रमग भयप्राधान्यबोधकत्वाभिप्रायेणोभयपदप्रयोगात्तत्रैकत्र द्वयमिति उभयविषयताद्वयशालिनो बोधान्तरस्यानुभविक