________________
"- अन्योन्यापेक्षकाणां च पदं संहतिरुच्यते ॥७॥ ' वाक्यं स्याच्च पदानां तु वचनं तत्त्रयात्मकम् ॥
वर्णपदवाक्यात्मकं वचनं, तत्र वर्णमाह-आदिरिति । अकारादिरित्यर्थः । पौद्गलिक इति । भाषावर्गणापुद्गलस्कन्धनिष्पन्न इत्यर्थः । अनेन शब्दस्य गुणत्वं प्रतिक्षिप्तं बोद्धव्यम् । पदमाह-वर्णानामिति । वर्णानामन्योन्यापेक्षाणां निरपेक्षिका संहतिः पदम् । निरपेक्षिकेति । पदान्तरवर्तिवर्णकृतोपकारपराङ्मुखीत्यर्थः । एवं क्वचिद् वर्णस्य वर्णयोश्चापि पदत्वं बोध्यम् । वस्तुतस्तु. सङ्केतवत् पदमिति ॥ वाक्यमाह-वाक्यमिति । अन्योन्यापेक्षाणां पदानां समुदायो वाक्यमित्यर्थः । तत्त्रयात्मकमिति । वर्णपदवाक्यात्मकमित्यर्थः । प्रकरणपरिच्छेदादीनामप्येतदुपलक्षणं ज्ञेयं, तेषामपि क्चनत्वादिति ।।७१-॥ ": । नन्वर्थबोधनिबन्धनत्वं शब्दस्य कुत इत्याह- सामर्थ्यमथ शक्तिः स्यात् , सङ्केतः समयो मतः ॥७२॥ ताभ्यां स्वाभाविकाभ्यां स्या-च्छब्दोऽर्थस्य विबोधकृत् ॥
सामर्थ्यमिति । शक्तिरिति । योग्यता नाम्न्यर्थप्रतिपादकशक्तिरित्यर्थः । सङ्केतोऽस्मात् पदादयमर्थो बोद्धव्य इतीच्छारूपः ॥ ताभ्यामिति ।. सामर्थ्य समयाभ्याम् । स्वाभाविकाभ्यामिति । तत्र शक्तौ स्वाभाविकत्वं सहजत्वं, सङ्केते तु ईश्वराऽनपेक्षत्वं बोध्यम् । तेन च नेश्वरेच्छा शक्तिरिति सिद्धम् । इत्थं च. शब्दः सङ्केतमात्रेणैवार्थप्रतिपादक इति वदन्नैयायिकः, समयादपि नायं वस्तुप्रतिपादक इति वदन् सौगतश्च पराकृतो वेदितव्यः । द्वाभ्यामपि शब्दस्यार्थप्रतिपत्तिकारणत्वात् । वस्तुतस्तु स्वाभाविकशक्त्या शब्दोऽर्थ बोधयति, तत्र सङ्केतस्तु सहकारी। सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वाच्च न देशभेदेनाऽर्थभेदेऽपि शब्दानां क्षतिः । यत्र हि देशे यदर्थप्रतिपादनशक्ति सहकारी सङ्केतः स तमथं तत्र प्रतिपादयतीति । अत्र अर्थावबोधसामर्थ्य शब्दस्य पराऽ नपेक्षं, तत्र प्रामाण्याप्रामाण्ये पुनः पुरुषगुणदोषापेक्षे इति बोध्यम् ॥७२॥