________________
नोंदगमत् पूर्वभाद्रपदा मुहूर्तात्पूर्व, उत्तरभाद्रपदोद्गमाऽनवगमात् । नास्त्यत्र सम्यग्ज्ञानं सम्यग्दर्शनानुपधेरिति । क्रमादिति । स्पष्टम् ॥६६-६७॥
तदेवमुक्तमनुमानम् , अथाऽऽगमप्रमाणम् ; तत्र पूर्व वक्ष्यमाणागमलक्षणघटकाप्तस्वरूपमाह
अभिधेयानि वस्तूनि यो जानीते यथास्थिति । अभिधत्ते यथाज्ञानं स आप्तोऽयं द्विधा मतः ॥६८॥ लौकिको जनकादिः स्या-ल्लोकोत्तरश्च तीर्थकृत् । तेषां ह्येव वचः शून्यं, विसंवादेन दृश्यते ॥६९॥
अभिधेयानीत्यादि। यथास्थितार्थपरिज्ञानपूर्वकहितोपदेशप्रवण आप्त इति भावः । स द्वेधा-लौकिको लोकोत्तरश्च । आयो जनकजनन्यादिः । द्वितीयस्तीर्थकृद्गणध्ररादिः । उक्तस्वरूपाणामेव ह्याप्तत्वं युक्तं विसंवादशून्यत्वात् . तद्वचनस्येत्याह-तेषामिति ॥६८-६९॥ · अथागमलक्षणमाह
आविर्भूता च तद्वाचोऽर्थसंविन्मत आगमः। उपचाराद् भवेदाप्त-वचनं वक्ष्यतेऽथ तत् ॥७॥
आविर्भूतेति । आप्तवचनादाविर्भूतमर्थसंवेदनमागम इति भावः । नन्वेवं सहि कथमा तवचनस्यागमत्वव्यवहार इत्यत आह-उपचारादिति । कारणे कार्योपचारादाप्तवचनम यागम उच्यत इति । न च व्याप्तिग्रहबलेनार्थप्रतिपादकत्वाधूमबदस्याऽनुमानेऽन्तर्भावः, कूटाकूटकार्षापणनिरूपणप्रवणप्रत्यक्षवदभ्यासदशायां व्याप्तिग्रहनैरपेक्ष्येणैवास्यार्थबोधकत्वादिति । नन्वाप्तवचनमित्यत्र कि नाम वचनमित्याह-वक्ष्यत इति । तदिति । वचनमिति ॥ ७० ॥
प्रतिज्ञातमाहआदिः पौद्गलिको वर्णों वर्णानां निरपेक्षिका ।