________________
११८
तदनिश्चयव्याप्यः। विरुद्ध कार्यरूपो यथा-नास्त्यस्य क्रोधोपशान्तिर्वदनविकारादेः, अत्र वदनविकारादिः क्रोधोपशमविरुद्धतदनुपशमकार्यम् । एवमग्रेऽपि । विरुद्धकारणरूपो यथा-नास्त्यस्यासत्यं वचः, रागाद्यकलङ्कितज्ञानकलितत्वात् । विरुद्धपूर्वचरो यथा-नोद्गमिष्यन्ति मुहूर्तान्ते पुष्यतारा रोहिण्युद्गमात् । विरुद्धोत्तरचरो यथा-नोदगान्मुहूर्तात् पूर्व मृगशिरः पूर्वफाल्गुन्युदयात् । विरुद्धसहचरो यथा-नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति ॥ .
तदेवमुक्तोपलब्धिरथानुपलब्धिमाहतथैवानुपलब्धिः स्याद् द्विधापि नवरं त्विदम् ॥६६॥ : विरुद्धानुपलब्धिश्च, पञ्चभेदा विभाविता । : इतरा सप्तधा ज्ञेया क्रमाद् विधिनिषेधंकृत् ॥६७॥
तथैवेति । उपलब्धिवदित्यर्थः । द्विधेति । अनुपलब्धिरपि द्विविधा, विरुद्धानुपलब्धिरविरुद्धानुपलब्धिश्चेति । अनुपलब्धावुपलब्धेविशेषमाह-विरुद्धति । पश्चभेदेति । प्रतिषेधरूपो विधिसाधको विरुद्धानुपलब्धिनामा हेतुः विधेयविरुद्धकार्य-कारणस्वभावव्यापकसहचराऽनुपलम्भभेदात् पञ्चधा । यथा मस्त्यत्र रोगातिशयो नीरोगव्यापारानुपलब्धेः; अत्र विधेयरोगातिशयविरुद्धारोग्यकार्य विशिष्टव्यापारः । एवमग्रेऽपि । विद्यतेऽत्र कष्टमिष्टसंयोगाभावात् । वस्तुजातमनेकान्तात्मकमे कान्तस्वभावाऽनुपलम्भात् । अस्त्यत्र छाया औष्ण्यानुपलब्धेः । अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनाऽनुपलब्धेरिति । इतरेति । अविरुद्धानुपलब्धिरित्यर्थः । सप्तधेति । प्रतिषेधरूपः प्रतिषेधसाधकस्तु अविरुद्धानुपलब्धिनामा हेतुः सप्तप्रकारः, प्रतिषेध्याविरुद्ध-स्वभाव-व्यापक-कार्य-कारण-पूर्वचरोत्तरचर-सहचरानुपलब्धिभेदात् । यथा नास्त्यत्र भूतले कुम्भ उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्याऽनुपलम्भात् । नास्त्यत्र पनसः पादपानुपलब्धेः । मास्त्यत्राप्रतिहतशक्तिकं बीजं, अङ्कुराऽनवलोकनात् । न सन्त्यस्य प्रशमप्रभृतयो भावास्तत्त्वार्थश्रद्धाभावात्। नोद्गमिष्यति मुहूर्तान्ते स्वातिः विरेटरमाऽदर्शनात