________________
११७
अथेत्यादिना प्रतिज्ञातमाहअविरुद्धा विरुद्धा च, तत्राद्या पइविधा मता । सा साध्येनाऽविरुद्धानां, व्याप्यादीनां विभाविता ॥६५॥
अविरुद्धेति । उपलब्धिद्विविधा, अविरुद्धोपलब्धिविरुद्धोपलब्धिश्चेति । आयेति । अविरुद्धोपलब्धिरित्यर्थः । षविधेति । षड्विधत्वमेवाह-सेत्यादिना। तथा हि-अविरुद्धोपलब्धिनामा हेतुः षोढा, व्याप्य-कार्य-कारण-पूर्वचरोत्तरचर-सहचरभेदात् । व्याप्यो यथा शब्दोऽनित्यः प्रयत्नानन्तरीयकत्वादिति । यद्यपि सर्व एव हेतुाप्यस्तथापि कार्याद्यनात्मव्याप्यस्यात्र ग्रहणाद् भेदः । वृक्षः शिंशपाया इत्यादैः स्वभावहेतोरप्यत्रैवान्तर्भावः । कार्यरूपो यथा पर्वतो वह्निमान् धूमात् । कारणरूपो यथा वृष्टिर्भविष्यति विशिष्टमेघाऽन्यथानुपपत्तेरित्यत्र मेघविशेषः । अत्रेदं बोध्यं यस्मिन् सामर्थ्याप्रतिबन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते तस्यैव कारणस्य कार्यानुमापकत्वं, अन्यथा वनेरपि धूमानुमान· प्रसङ्गात् । पूर्वचरो यथा-उदेष्यतिं मुहूर्तान्ते शकटं कृत्तिकोदयात् । उत्तरचशे यथा-उदगाद् भरणिः प्राक् कृत्तिकोदयात् । सहचरो यथा-मातुलिङ्गरूपवद् रसवत्तान्यथानुपपत्तरित्यत्र रसः । एषूदाहरणेषु भावरूपा एवाविरुद्धोपलब्धयो धूमादिहेतवो भावरूपानेवाग्न्यादीन् साधयन्तीति विधिसाधकविधिरूपा उच्यन्ते ॥६५॥
... विरुद्धोपलब्धिभेदानाह
सप्तधाऽन्या समाख्याता, स्वभावादिविरोधिनी ।
सप्तधेति । अन्येति । विरुद्धोपलब्धिरित्यर्थः । स्वभावादीति । निषेधसाधको विधिरूपो विरुद्धोपलब्धिनामा हेतुः स्वभावविरुद्धव्याप्यादिभेदात सप्तविधः । स्वभावविरुद्धो यथा-नास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलम्मात् अत्रानेकान्तः प्रतिषेध्यस्यैकान्तस्य स्वभावतो विरुधः । विरुद्धव्याप्यो यथा नास्त्यस्य तत्त्वनिश्चयस्तत्र सन्देहात् , अत्र तत्त्वसन्देहः प्रतिपेध्यतत्त्वनिश्चयविरुद्ध