________________
प्रतिज्ञादय उदाहरणादयो वा त्रय एवेति भावः । यद्वा अपिशब्दात्ताछुदीनामन्यवयवसंज्ञा बोध्या । यतः पक्षादि स्वरूपविप्रतिपत्तिमतः प्रति पक्षशुद्धयादिकमपि वाच्यमिति सोऽयं दशावयवोऽपि हेतुज्ञेय इति भावः ॥६०-६१॥
अथ प्रागुक्तं हेतुं प्रकारतो दर्शयतिउपलब्ध्वनुपलब्धि-भेदाढेतुर्द्विधा मतः । विधिनिषेधयोरेती, क्रमात् सिद्धिनिबन्धने ॥६२॥
उपलब्ध्यनुपलब्धिभेदादिति । अन्यथानुपपत्त्येकलक्षणो हेतुद्धिंविधः, उपसानिधनामाऽनुपलब्धिनामा च । विधिरूपः प्रतिषेधरूपश्चेति भावः । क्रमादिति। वक्ष्यमाण मेदक्रमेणेत्यर्थः । तत्र विधिरूपो विधिसाधकः प्रतिषेधसाधकश्चेति द्विधा । पवं प्रतिषेधरूपोऽपि द्विधेति तात्पर्यम् ॥६२॥
अथ विधिप्रतिषेधावाहसर्दशोऽत्र विधिज्ञेयः, प्रतिषेधोऽसदंशकः।
चतुर्विधः स विज्ञाना-मुत्तमैः परिकीर्तितः ॥६३॥ ..पूर्वप्रध्वंसकान्योन्या-त्यन्ताभावप्रकारतः।
ज्ञेयः सोऽयोपलब्धिश्च, प्रभेदेन प्रदर्श्यते ॥६४॥
सदंश इति । सदसदंशात्मनो वस्तुनो योऽयं भावरूपः सदंशः स विधिरिति गीयते । प्रतिषेध इति । तादृशस्यैव च वस्तुनो योऽयमभावरूपोऽसदंशः स प्रतिषेध इति गीयते । अथ प्रतिषेधप्रकारानाह-पूर्वेत्यादि । स प्रतिषेधः प्रागभावः प्रध्वंसाभाव इतरेतराभावोऽत्यन्ताभावश्चेति चतुर्धा । तत्र यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः, यथा घटस्य मृत्पिण्डः । यदुत्पत्तौ कार्यस्याऽवश्यं विपत्तिः सोऽस्य प्रध्वंसाभावः, यथा घटस्य कपालकदम्बकम् । स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः, यथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः । कालत्रयापेक्षिणी हि तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः, यथा चेतनाचेतनयोः । अथेति ॥६३-६४॥