________________
११५
क्वचित् प्रयुज्यते नाम दृष्टान्तादिरिहापि च ।
क्वचिदिति । मन्दमतीनुद्दिश्येत्यर्थः । दृष्टान्तादिरिति । दृष्टान्तोपनयनिगमनानीति । तथा च पश्चावयवमपि परार्थानुमानमिति ॥
अत्र दृष्टान्तं निरूपयति---- स्याद् दृष्टान्तोऽविनाभाव-प्रतिपत्तेः किलास्पदम् ॥५॥ द्वेधोक्तोऽथ स साधर्म्य-वैधाभ्यां सुधीमुखैः। अन्तर्व्याप्तिर्बहिव्यप्ति-श्चेति व्याप्तिर्द्विधा मता ॥५९॥
स्यादिति । अविनाभावेति । व्याप्तिस्मरणस्थानं दृष्टान्तो यथा महानसादिरिति । तद्भेदावाह-द्वेधेति । साधयेति । साधर्म्यदृष्टान्तो वैधर्म्यदृष्टान्तश्च । यत्र साधनसत्तायामवश्यं साध्यसत्ता प्रकाश्यते स आद्यः; यथा यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसे । यत्र तु साध्याभावे साधनस्याऽवश्यमभावः प्रदर्श्यते सोऽपरः; यथाऽन्यभावे न भवत्येव धूमो यथा जलाशये । दृष्टान्तलक्षणप्रविष्टव्याप्तिभेदावाह अन्ताप्तीति । पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्ताप्तिः, अन्यत्र तु बहिर्व्याप्तिः । तत्रान्तर्याप्त्या पक्षीयसाधनसम्बन्धग्रहात् पक्षीयसाध्यसंसर्गमानम् । तथा च तस्याः स्वरूपंप्रयुक्ताऽव्यभिचारलक्षणत्वफलम् , बहिर्याप्तेश्च सहचारमात्रत्वाद् दुर्लभम् ॥५८-५९॥
अथोपनयनिगमने आह.. उपत्यो निगमनं, यथासङ्खथमथोच्यते ।
साध्यधर्मिणि यद्धेतोः साध्यधर्मस्य तु पुनः ॥६॥ उपसंहरणं चैव तान्यवयवसंज्ञया ।
पश्चाप्यत्र प्रसिद्धानि पण्डितानां प्रयोजने ॥६॥ ... उपनय इति । साध्यधर्मिणि हेतोरुपसंहरणमुपनयः, यथा धूमधात्र प्रदेशे। साध्यधर्मस्य साध्यधर्मिण्युपसंहरणं निगमनं, यथा तस्मादग्निरत्र । नानीति । पक्षप्रयोगादीनि पञ्चापीति; न तु प्रतिज्ञाहेतू इति द्वावेव, नापि