________________
११४
मिन्नमिति । तथाहि-ज्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एव, अन्यथा व्याप्यनुपपत्तेः । आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी । वस्तुतस्तु तत्र पर्वतो वह्निमानित्यादौ हेतुग्रहणाधिकरणतयैव पक्षभानम् । क्वचिच्चान्यथानुपपत्त्यवच्छेदकतया पक्षमानं, यथा नभश्चन्द्रास्तित्वं विना जलचन्द्रोऽनुपपन्न इत्यत्र । व्याप्तिग्रहवेलायां तु पक्षस्य सर्वत्रानुवृत्त्यभावेन न तद्भानमिति । धर्मिणः प्रसिद्धिश्च क्वचिद्विकल्पतः क्वचित्प्रमाणतः क्वाप्युभाभ्याम् । यथाऽस्तित्वे साध्ये सर्वज्ञस्य, नास्तित्वे साध्ये खरविषाणस्य, वह्नौ साध्ये च पर्वतस्य, परिणामित्वसाधने शब्दस्य च । वस्तुतो विकल्पसिद्धस्थले खण्डशः सिद्धपदार्थेऽस्तित्वनास्तित्वसाधनमेवोचितमित्यन्यत्र विस्तरः ॥५६॥
परार्थमनुमानमाहपक्षहेतुवचोरूपं परार्थमुपचारतः। . . दृष्टान्ताधत्र नैवाङ्गं वस्तुतो हेतुरेव च ॥१७॥
पक्षेति । पक्षहेतुवचनात्मकं परार्थमनुमानम् । उपचारत इति । कारणे कार्योपचारादित्यर्थः, तेन श्रोतुरनुमानेनार्थबोधनात् । एवं प्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थं प्रत्यक्षम् ; यथा पश्य पुरः स्फुरकिरणमणिखण्डमण्डिताभरणभारिणी जिनपतिप्रतिमामित्यपि बोध्यम् । हेतुश्चात्र साध्योपपत्त्यन्यथानुपपत्तिभ्यां द्विधा प्रयोक्तव्यः; यथा पर्वतो वह्निमान् सत्येव वह्नौ धूमोपपत्तेः, असत्यनुपपत्तेर्वा; मनयोश्च प्रायोऽन्यतरस्यैव प्रयोगस्यैकत्रोपयोगः । ननु पञ्चावयवरूपमेव वाक्यं परार्थानुमानं, तत्किमुक्तं पक्षहेतुवचोरूपमेवेत्यत आह-दृष्टान्तादीति । पक्षहेतुवचनरूपावयवद्वयस्यैव परप्रतिपत्त्यङ्गत्वान्न दृष्टान्तादिवचनमिति भावः । न चैवं हेतोरन्यथानुपपत्त्यनिर्णयः; तर्कप्रमाणेनैव तदुपपत्तेः । किञ्च यः क्षयोपशमविशेषवान् तं प्रति तु हेतुरेव प्रयोज्यः, न पक्षोऽपीत्याह-वस्तुत इति ॥५७॥
ननु व्युत्पन्नान् प्रति माऽस्तु दृष्टान्तादिप्रयोगः, परमव्युत्पन्नानां तदप्रयोगे कथं प्रतिपत्तिरिति चेदत आह