________________
११३
अनुमानमिति । तच्च साधनात् साध्यविज्ञानम् । तत् स्वार्थ परार्थं चेति द्विधा । तत्र स्वार्थ हेतुग्रहण सम्बन्धस्मरण कारणकं साध्यविज्ञानम् । यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य पर्वतो वह्निमानिति ज्ञानम् । कारणत्वं चात्र ग्रहणस्मरणयोः विस्मृताप्रतिपन्नसम्बन्धस्यागृहीतलिङ्गस्य चानुमानाऽनुत्पादात् समुदितयोरेव बोध्यम् । इत्थं च व्याप्तिप्रकारकपक्षधर्मताज्ञानरूपपरामर्शस्य हेतुता निरस्ता, पूर्वोक्तज्ञानद्वयादेवाऽनुमितेर्दर्शनाद् विलम्बाभावाच्चेति ॥५४॥
हेतुं निरूपयतिहेतुश्च निश्चितान्यथा-नुपपत्त्येकलक्षणः । अन्यथानुपपत्तिश्च साध्यधर्मेण गृह्यते ॥५५॥
हेतुरिति । स च निश्चितान्यथानुपपत्त्येकलक्षणः । अन्यथानुपपत्तिश्चात्र हेतुप्रक्रमात् साध्यधर्मेण साधं ग्राह्या। अत्र त्रिलक्षण एव हेतुरिति बौद्धाः । लक्षणानि च पक्षसत्त्व-सपक्षसत्त्व-विपक्षाऽसत्त्वानि । अबाधितत्वाऽसत्प्रतिपक्षितत्वसहितानि पञ्च लक्षणानि हेतोरिति च नैयायिकाः । तन्नः पक्षधर्मत्वाभावेऽप्यस्ति नभश्चन्द्रो जलचन्द्रादित्याद्यनुमानदर्शनात् ।।५५ ।
. साध्यं निरूपयति... अप्रतीतं च साध्यं स्या-दनिराकृतमीप्सितम् ।
विषयभागात् साध्यत्वं भिन्न भिन्नमुदाहृतम् ॥५६।। ... अग्रतीतमिति । अप्रतीतमनिराकृतमभीप्सितं च साध्यम् । तत्र शङ्कितविपरीताऽनध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थ अप्रतीतवचनम् । न च शङ्कितस्यैव साधनं, विपर्यस्ताऽव्युत्पन्नयोरपि परपक्षदिदृक्षा दिना कथायामुपसर्पणात् संशयनिरासार्थमिव विपर्ययाऽनध्यवसायनिरासार्थमपि प्रयोगसम्भवात् । प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृतग्रहणम् । इदं वादिप्रतिवाद्युभयापे. क्षया बोध्यं, द्वयोः प्रमाणेनाऽबाधितस्य कथायां साध्यत्वात् । अनभिमतस्याऽसाध्यत्वप्रतिपत्तयेऽभीप्सितग्रहणं, इदं च वाद्यपेक्षयैवेति । विषयभागादिति ।