________________
११२
इदं तस्माद्दूरं समीपं प्रांशु ह्रस्वं महत् सूक्ष्ममित्यादि । न चेदं स्मृतिसहायेन्द्रियजन्यं प्रत्यक्षमेव तस्य स्मृतिनिरपेक्षत्वात् । एतेन सामान्यलक्षणापि निरस्ता | इत्थं च ' अयं गवयशब्दवाच्य' इति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरूपमुपमानमप्यपहस्तितं, 'गोबिसदृशो महिष' इत्यादेरपि प्रमाणान्तरतापत्तेः । अनुभूतव्यक्तौ गवयपदवाच्यत्वसङ्कलनात्मकस्यास्य प्रत्यभिज्ञानत्वाऽनतिक्रमाच्चेति ॥ ५१ ॥
तर्कमाह
त्रिकालवर्त्तिनोर्यः ः स्यात् साध्यसाधनयोः खलु । सम्बन्धादिस्तदालम्ब - मूहापरसुनामकम् ॥५२॥
उपलम्भेतरोभूतं विज्ञानं परिकीर्त्यते । सत्येन चेति तर्कस्ताकिं शेखरैः ||५३||
"
त्रिकालेति । सकलदेशकालाद्यवच्छेदेन साध्यसाधनभावादिविषय ऊह - स्तर्कः । यथा यावान् कश्चिद धूमः स सर्वो वही सत्येव भवति, वह्नि विना वा न भवति । न च कन्यापक साध्य सामानाधिकरण्यव्याप्तेर्योग्यत्वाद् भूयोदर्शनव्यभिचारादर्शन सहकृतेनेन्द्रियेण तद्ग्रहोऽस्तु, सामान्यलक्षणया सकलसाध्यसाधनव्यक्त्युपसंहारस्यापि सम्भवादिति वाच्यम् । ' तर्कयामी ' साध्यसाधनदर्शनस्मरणं प्रत्यभिज्ञानाजनितेन तर्केणैव सकलसाध्यसाधनव्यक्त्युपसंहारेणव्याप्तिग्रहोपपत्तेः सामान्यलक्षणायां मानाभावात् । ज्ञातेनापि सामान्येन ऊहं विना सकलव्यक्त्यनुपस्थितेश्च । व्याप्यारोपेण व्यापकारोपस्तर्कस्तु विपर्ययपर्यवसायी क्वचिच्छङ्का विघटकतयैवोपयोगीति । 'घटशब्दमात्रं घटस्य वाचकं, घटमात्रं घटशब्दवाच्यं' इत्यादिर्वाच्यवाचक भावोऽपि तर्केणैवावगम्यते, तस्यैव सकलशब्दार्थगोचरत्वात् । उपलम्भेति । सहचारग्र:व्यभिचाराऽग्रहाभ्यामुद्भूतमित्यर्थः ॥५२-५३॥
त्यनुभवसिद्धेन
अथानुमानं निरूपयति—
अनुमानं द्विधा स्वार्थं परार्थं चादिमं त्विदम् । हेतुग्रहणसम्बन्ध-स्मृतिहेतुकसाध्यवित् ||१४||