SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयः परोक्षनिरूपणपरिच्छेदः ॥ परोक्षमुपक्रमते... परोक्षं चाथ कथ्यते ॥४८॥ परोक्षमिति ॥४८॥ अथ लक्षणपुरःसरं तभेद सङ्ख्यामाह -- तदस्पष्टं समाख्यातं, पञ्चधा पूर्वपण्डितैः । तत्प्रपश्चोऽथ विज्ञेयो-वक्ष्यमाणो यथाक्रमम् ॥४९॥ तदिति । परोक्षमित्यर्थः । पञ्चधेति । स्मरणप्रत्यभिज्ञानतर्वानुमानागमभेदतः पञ्चप्रकारमिव्यर्थः । शेषं स्पष्टमिति ॥४९। .: अथ प्रत्येकं दर्शयति- .. संस्कारबोधसम्भूत-मनुभूतार्थगोचरम् । - तदित्याकारकं ज्ञानं स्मरणं कथितं बुधैः ॥५०॥ संस्कारेति । स्पष्टम् । यथा तत्तीर्थ करबिम्बमिति । अनुभवमात्रजन्यज्ञानं स्मृतिरिति परमार्थस्तेन प्रमुष्टतत्ताकस्यापि तत्त्वम् । न च स्मृतेरप्रामाण्यं, प्रत्यक्षादिवद विसंवाद त्वात् । न चानुभवप्रमात्वायत्तत्वात्तत् , स्वविषयपरिच्छेदे स्वातन्त्र्यात् । अन्यथा ह्यनुमितेर प्युत्पत्तौ परापेक्षत्वेनाप्रामाण्यं स्यादिति ॥५०॥ प्रत्यभिज्ञानमाह -- तिर्यगृर्श्वत्वसामान्य-प्रभृत्यालम्बनं तथा । संकलनात्मकं ज्ञानं प्रत्यभिज्ञानमिष्यते ॥५१॥ तिर्यगिति । अनुभवस्मृतिहेतुकं तिर्यगूलतासामान्यादिगोचरं तदेवेदमित्याकारकं ज्ञानं प्रत्यभिज्ञानं प्रत्यभिजानामीतिप्रीतिसिद्धम् । यथा तज्जातोय एवायं गोपिण्डः, गोसदृशो गवयः, गोविलक्षणो । हिषः, स एवायं जिनदत्तः,
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy