Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 199
________________ २६ त्रिदश-तरङ्गिणी मन्त्राणां न प्रभावः प्रभवति न विभो ! संस्तुतिः काऽपि दैवी, नौषध्यो विध्यापात्रा (द्ययाढया) अपि महिमभृतः कालरूपाश्च भूपाः । उद्यद्रोहप्ररोहप्रवणमतिजुषः शम्पुषः स्वाजनानां, हा ! हा ! भूतस्तदेवं जगति मतिमतां त्राणमेकोऽसि पार्श्व ! ॥३॥ भ्रश्यद्भूभङ्गभीतभ्रमदसुरगणैः क्षुब्धबिभ्यत्रिलोके, त्रस्यद्दिगमत्तनागे व्यथितफणिपतौ सैन्यघोषोग्रभारात् । शस्त्रज्वालावलीढप्रतिभटविकटं कम्प्रभूध्रोच्चलाब्धौ, विश्वाश्चर्य भट त्वं प्रकटमकृत यः शाखिसंस्फोटकाले ॥४॥ माद्यन्मातङ्गमालागिरिकलकुलितं तुङ्ग रङ्गत्तरङ्ग श्रेणीकल्लोललोलद्विपुलबलचलत्पत्तियादःकलापम् । योऽमथ्नान् म्लेच्छजालान् कपटजलनिधिः सोऽर्यतां पार्श्वनाथः, सर्पच्छीखीन्द्रदर्पज्वरभरसदपस्मारधन्वन्तरिश्रीः । अर्थतो युग्मम् ।। बाला वेतालमाला बहुलबलकला भूमिपालाः शृगाला, व्यालाश्चाम्भोजनालान्यनधिकृतितयाऽम्भोधयो व्याधयो वा । पञ्चास्याश्चाप्तदास्या ह्यनुकृतपशवः प्राणिनां दस्यवः स्युजैत्रा यन्नाममन्त्रान् स जयति भगवान् जीरिकापल्लिपार्श्वः । स्वल्पः कल्पद्रुगणविभवः सम्भवः स्वर्गवीनां, मिथ्या तथ्या न सुरमणयश्चालयः सन्महिम्नाम् । मन्त्रैः स्तोत्रैः किमिह भविनां भाविनां पार्श्वनाथो, वासं त्रासं गमितरितः संश्रितश्चेन्मनस्सु ॥७॥ रत्तत्धत्तप्या (रत्नत्रय्याप्य) सौख्यं प्रदददभयदः सादरं भोगिभर्ता, पुत्री० ती विधत्ते सततमीव सुखं चापि पद्मावतीह । स्तोतारं यस्य विश्वत्रिदशपरिवृढप्रौढपूजास्पदस्य, श्रीमान् पाश्वो मम स्तादभिमतफलकृज्जीरिकापल्लिमौलि: ॥८॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254