Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj
View full book text
________________
४४
त्रिदश-तरङ्गिणी
तुहिनं-हिमं, तुहिनरोंचि:-चन्द्रस्तयो रोचिष इव रोचिषो वपु:कान्तयो यासां ताः । हे पुण्यशकटमहावृषभ !। कर्ममलरहितं कुविति भावः । भ्रमरनव्यकान्तिभिर्दुविकल्पोद्भवैरथैः । १३॥ सदन ! सदनघोद्यत्-श्रेयसां श्रीअनन्ता-..
.. ऽगमनगमनयश्रीभ्राजमानाऽऽगमाब्धे !। शमद ! शमऽदरं मे श्रायसं कल्मषाणां, ..
वितर वितरणे यत्त्वं क्षमोऽसीहितानाम् ॥१४॥ सन्ति-प्रशस्यानि, अनघानि-पापानुबन्धरहितानि, उद्गच्छन्ति यानि श्रेयांसि तेषां सदन !। अगमना-आगमस्य शाश्वतत्वेनाऽगत्वरा, गमा:-सदशपाठाः, नयाश्च नैगमाद्यास्तेषां श्रिया भ्राजमान आगमसमुद्रो यस्य । हे कल्मषाणां शमद !। श्रेयस इदं अणि श्रायसं 'देविकाशिशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः' [सि०७।४।३] इत्यात्त्वम् ॥१४॥ विबुधविबुधराज्या धर्मनाथाऽघ्रियुग्मं,
महितमहितवह नौ वारिदं ते नमन् स्यात् । जनितजनिततश्रीर्योगिवृन्दस्य चेत:
सरसि सरसिजाभं तन्नमस्यं तदेव ।।१५।। विशेषेण बुधा:-सुधियः सम्यग्दृश इति भावः। ते च ते विबुधा-देवाश्च तेषां सज्या । बाह्याभ्यन्तरभेदभिन्नवैरि। जनिता जनेर्जन्मनस्तता परिणावपि (मेपि) भवान्तरेप्युपलभ्या वा श्री:शोभा सफलता वा येन । जिननमनादिभिरेव नृजन्मनः सश्रीकत्वात्सफलत्वाच्च। तस्माद्धेत्तोः नमस्कासहं तदेव अघ्रियुग्म हितार्थिनामिति शेषः ।।१५।। सदय ! सदययोगाद् यस्य विश्वाागिवर्गे,
महिममहि ! महश्रीवर्ष ! शान्ले ! प्रभुस्त्वं ।
"Aho Shrut.Gyanam"

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254