Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj
View full book text
________________
७०
ह्रींकारवर्णनस्तवनम् मायाबीजकरी दुरन्तदुरितवातद्रुमोन्मूलके, ध्यानाधीनधियां तनोतु सुधियां प्रत्यूहवैरिक्षयम् ॥३।। युग्मम् ॥ ॐकारादिनमोऽन्तमन्त्रजगदन्तःस्थः कलाचूलिकोऽनुस्वारविहारहारिशिखरोद्वेधा सुवर्णात्मकः।। अन्त्योपान्त्यशिरस्त्रिरेख विपिनश्रेणिीत्रयः सर्वविद्देवानां सदनं हराक्षरसुरक्ष्माभृच्चिरं नन्दतु ॥४॥ हस्ताभ्यामिह शाखिताः कुसुमिताः कामाङकुशादर्शकैभूषाभिश्च विभूषिताः किलिता दीर्घाङगुलीभिर्भृशम् । यत्र स्वःपतिपादपंति सपदि द्विादश श्रीजिनाः, ह्रींकारा""रनन्दनं तदुदितच्छाया सुखायाऽस्तु वः ॥५॥ भव्यप्राणीसमीहितार्थपटलीसम्पादनप्रत्यला:, सर्वे सार्वप (सा)र्वदिव्यमणयस्तिष्ठन्ति यस्यान्तरे । चञ्चच्चन्द्रकलोर्ध्वभूम्यधिगतानुस्वारश्रृङ्गं दधि, ह्रींकाराकृतिरोहणक्षितिधरो दद्यात् सरत्तानि वः ॥६॥ नीलः शीर्षगलभरायभुग्जग व्यापादनव्याप्तः, प्रेङखत्कालिमबिन्दुचन्द्रकलभोपेतः सदीर्घस्वरः । यः शोभाञ्चितपञ्चवर्णरुचिरो धत्ते मयूरश्रियं, मायाबीजमयः स खेलतु हृदुद्यानेषु वर्णः सताम् ।।७।। यः कायांहिषु शातकुम्भकपिशः शीर्षाश्रितेकारयोदुर्वानीलरुचिर्न चार्ककिरणरक्तश्च नादेद्भुते । बिन्दौ व्योमशितिः कलाधरकलासत्क: कलायामिति स्याद्वादं प्रतिपादयन्नवतु वो ह्रींकारवर्णो गुरुः ॥८॥ भूतोद्भाविभवज्जगज्जनजरां ह्रींकारवर्णोसितुम्, सन्नादोंष्ढनिकोलबिन्दुगकलापीयूषकुम्भोदधिः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254